भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.198

1.198.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सप्तनवत्यधिकशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 198
भैरव उवाच ।
नित्यक्लिन्नामथो वक्ष्ये त्रिपुरां भुक्तिमुक्तिदाम् ।
ओं ह्रीं आगच्छ देवि ऐं ह्रीं ह्रीं रेखाकारणम् ।
ओं ह्रीं क्लेदिनी भं नमः मदनक्षोभिणा तथा ।
ऐ यं यं क्रीं वा गुणरेखया ह्रीं मदनान्तरे च ।
ऐं ह्रीं ह्रीं च निरञ्जना वागति मदनान्तरेखे खनेत्रावलीति च ।
वेगवति महाप्रेतासनाय च पूजयेत् ।
ओं ह्रीं क्रैं नैं क्रैं नित्यं मदद्रवे क्रीं नमः ।
ऐं ह्रीं त्रिपुरायै नमः ।
ओं ह्रीं क्रीं पश्चिमवक्त्रं ओं ऐं ह्रीं ह्रीं च तथोत्तरम् ।
ऐं ह्रीं दक्षिणमूर्ध्वंवक्त्रं तु पश्चिमम् ।
ओं ह्रीं पाशाय क्रीं अङ्कुशाय ऐं कपालाय नमः ।
आद्यं भयं ऐं ह्रीं च तथा शिरः तथा शिखायै कवचे ।
ऐं ह्रीं क्रीं अस्त्रायफट्

1.198.2

पूर्वे कामरूपाय असिताङ्गाय भैरवाय नमो ब्रह्माण्यै ।
दक्षिणे चै कन्दाय वै नमः रुरुभैवाय माहेश्वर्या वा आवाहयेत्

1.198.3

तथा पश्चिमे चण्डाय वै नमः ।
कौमार्यै चोत्तरे चोल्काय क्रोधाय नमः वैष्णव्यै

1.198.4

अग्निकोणे अघोरायोन्मत्तभैरवायेति वाराह्यै ।
रक्षः कोणे साराय कपालिने भैरवाय माहेर्न्द्यै

1.198.5

वायुकोणे जालन्धराय भीषणाय भैरवाय चामुण्डायै ।
ईशकोणके वटुकाय संहारञ्चण्डिकाञ्च प्रपूजयेत्

1.198.6

रतिप्रीतिकामदेवान्पञ्चबाणान्यजेदथ ।
ध्यानार्चनाज्जप्यहोमाद्देवी सिद्धा च सर्वदा

1.198.7

नित्या च त्रिपुरा व्याधिं हन्याज्ज्वालामुखीक्रमात् ।
ज्वालामुखीक्रमं वक्ष्ये सा पूज्या मध्यतः शुभा

1.198.8

नित्यारुणा मदनातुरा महामोहा प्रकृत्यपि ।
महेन्द्राणी च कलनाकर्षिणी भारती तथा

1.198.9

ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा ।
वाराही चैव माहेन्द्री चामुण्डा चापराजिता

1.198.10

विजया चाजिता चैवमोहिनी त्वरिता तथा ।
स्तम्भिनी जृम्भिणी पूज्या कालिका पद्मबाह्यतः ।
ज्वालामुखीक्रमं चार्चेद्विषादिहरणं भवेत्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc