गङ्गासहस्रनामस्तोत्रम् · अध्याय 1
अगस्त्युवाच ।
विनास्नानेनगङ्गायानृणाञ्जन्मनिरर्थकम् ।
उपायान्तरमस्त्यन्योनिस्नानफलंलभेत्
अशक्तानाञ्चपङ्गूनामालस्योपहतात्मनाम् ।
दूरदेशान्तरस्थानाङ्गङ्गास्नानङ्कथम्भवेत्
दानंवा अथव्रतंवा अथमन्त्रःस्तोत्रञ्जपे अथवा ।
तीर्थान्तराभिषेकोवादेवतोपासनन्तुवा
यास्तिकिञ्चित्पडक्त्रगङ्गास्नानफलप्रदम् ।
विधानान्तरमात्रेणतद्वदप्रणतायमे
त्वत्तोनवेदस्कन्दान्योगङ्गागर्भसमुद्भव ।
परंस्वर्गतरङ्गिण्यामहिमानंमहामते
स्कन्द उवाच ।
सन्तिपुण्यजलानीहसरांसिसरितोमुने ।
स्थानेस्थानेचतीर्थानिजितात्माध्युषितानिच
दृष्टप्रत्ययकारीणिमहामहिमभाञ्ज्यपि ।
परंस्वर्गतरङ्गिण्याःकोट्यंशोपिनतत्रवै
अनेनैवानुमानेनबुद्ध्यस्वकलशोद्भव ।
दध्रेगङ्गोत्तमाङ्गेनदेवदेवेनशम्भुना
स्नानकाले अन्यतीर्थेषुजप्यतेजाह्नवीजनैः ।
विनाविष्णुपदीङ्क्वान्यत्समर्थमघमोचने
गङ्गास्नानफलम्ब्रह्मन्गङ्गायामेवलभ्यते ।
यथाद्राक्षाफलस्वादोद्राक्षायामेवनान्यतः
अस्त्युपाय इहत्वेकःस्योनाविकलम्फलम् ।
स्नानस्यदेवसरितोमहागुह्यतमोमुने
शिवभक्तायशान्तायविष्णुभक्तिपरायच ।
श्रद्धालवेत्वास्तिकायगर्भवासमुमुक्षवे
कथनीयंनचान्यस्यकस्यचित्केनचित्क्वचित् ।
इदंरहस्यम्परमंमहापातकनाशनम्
महाश्रेयस्करम्पुण्यंमनोरथकरम्परम् ।
निदीप्रीतिजनकंशिवसन्तोषसन्तति
नाम्नांसहस्रङ्गङ्गायाःस्तवराजेषुशोभनम् ।
जप्यानाम्परमञ्जप्यंवेदोपनिषदासमम्
जपनीयम्प्रयत्नेनमौनिनावाचकंविना ।
शुचिस्थानेषुशुचिनासुस्पष्टाक्षरमेवच
ॐ नमोगङ्गादेव्यै ।
ॐ काररूपिण्यजराऽतुलाऽनन्ताऽमृतस्रवा ।
अत्युदाराऽभयाऽशोकाऽलकनन्दाऽमताऽमला
अनाथवत्सलाऽमोघऽपंयोनिरमृतप्रदा ।
अव्यक्तलक्षणाऽक्षोभ्याऽनवच्छिन्नाऽपराजिता
अनाथनाथाऽभिष्टार्थसिद्धिदाऽनङ्गवर्धिनी ।
अणिमादिगुणाऽधाराग्रगण्याऽलीकहारिणी
अचिन्त्यशक्तिरनघाऽद्भुतरूपाऽघहारिणी ।
अद्रिराजसुताऽष्टाङ्गयोगसिद्धिप्रदाऽच्युता
अक्षुण्णशक्तिरसुदाऽनन्ततीर्थाऽमृतोदका ।
अनन्तमहिमाऽपाराऽनन्तसौख्यप्रदाऽन्नदा
अशेषदेवतामूर्तिरघोराऽमृतरूपिणी ।
अविद्याजालशमनीह्यप्रतर्क्यगतिग्रदा
अशेषविघ्नसहर्त्रीत्वशेषगुणगुम्फिता ।
अज्ञानतिमिरज्योतिरनुग्रहपरायणा
अभिरामाऽनवद्याङ्ग्यनन्तसाराऽकलङ्किनी ।
आरोग्यदाऽऽनन्दवल्लीत्वापन्नार्तिविनाशिनी
आश्चर्यमुर्तिरायुष्याह्याढ्याऽऽद्याऽऽप्राऽऽर्यसेविता ।
आप्यायिन्याप्तविद्याऽऽख्यात्वानन्दाऽऽश्वासदायिनी
आलस्यघ्न्यापदांहन्त्रीह्यानन्दामृतवर्षिणी ।
इरावतीष्टदात्रीष्टात्विष्टापूर्तफलप्रदा
इतिहासश्रुतीड्यार्थात्विहामुत्रशुभप्रदा ।
इज्याशीलसमिज्येष्ठात्विन्द्रादिपरिवन्दिता
इलालङ्कारमालेद्धात्विन्दिरारम्यमन्दिरा ।
इदिन्दिरादिसंसेव्यात्विश्वरीश्वरवल्लभा
ईतिभीतिहरेड्याचत्वीडनीयचरित्रभृत् ।
उत्कृष्टशक्तिरुत्कृष्टोडुपमण्डलचारिणी
उदिताम्बरमार्गोस्रोरगलोकविहारिणी ।
उक्षोर्वरोत्पलोत्कुम्भा उपेन्द्रचरणद्रवा
उदन्वत्पूर्तिहेतुश्चोदारोत्साहप्रवर्धिनी ।
उद्वेगघ्न्युष्णशमनी उष्णरश्मिसुताप्रिया
उत्पत्तिस्थितिसंहारकारिण्युपरिचारिणी ।
ऊर्जंवहन्त्यूर्जधरोर्जावतीचोर्मिमालिनी
ऊर्ध्वरेतःप्रियोर्ध्वाध्वाद्यूर्मिलोर्ध्वगतिप्रदा ।
ऋषिवृन्दस्तुतर्द्धिश्चऋणत्रयविनाशिनी
ऋतम्भरर्द्धिदात्रीचऋक्स्वरूपाऋजुप्रिया ।
ऋक्षमार्गवहर्क्षार्चिरृजुमार्गप्रदर्शिनी
एधिताऽखिलधर्मार्थात्वेकैकामृतदायिनी ।
एधनीयस्वभावैज्यात्वेजिताशेषपातका
ऐश्वर्यदैश्वर्यरूपाह्यैतिह्यंह्यैन्दवीद्युतिः ।
ओजस्विन्योषधीक्षेत्रमोजोदौदनदायिनी
ओष्ठामृतौन्नत्यदात्रीत्वौषधम्भवरोगिणाम् ।
औदार्यचञ्चुरौपेन्द्रीत्वौग्रीह्यौमेयरूपिणी
अम्बराध्ववहांऽबष्ठाम्बरमालाम्बुजेक्षणा ।
अम्बिकाम्बुमहायोनिरन्धोदान्धकहारिणी
अंशुमालाह्यंशुमतीत्वङ्गीकृतषडानना ।
अन्धतामिस्रहन्त्र्यन्धुरञ्जनाह्यञ्जनावती
कल्याणकारिणीकाम्याकमलोत्पलगन्धिनी ।
कुमुद्वतीकमलिनीकान्तिःकल्पितदायिनी
काञ्चनाक्षीकामधेनुःकीर्तिकृत्क्लेशनाशिनी ।
क्रतुश्रेष्ठाक्रतुफलाकर्मबन्धविभेदिनी
कमलाक्षीक्लमहराकृशानुतपनद्युतिः ।
करुणार्द्राचकल्याणीकलिकल्मषनाशिनी
कामरूपाक्रियाशक्तिःकमलोत्पलमालिनी ।
कुटस्थाकरुणाकान्ताकुर्मयानाकलावती
कमलाकल्पलतिकाकालीकलुषवैरिणी ।
कमनीयजलाकम्राकपर्दिसुकपर्दगा
कालकुटप्रशमनीकदम्बकुसुमप्रिया ।
कालिन्दीकेलिललिताकलकल्लोलमालिका
क्रान्तलोकत्रयाकण्डूःकण्डूतनयवत्सला ।
खड्गिनीखड्गधाराभाखगाखण्डेन्दुधारिणी
खेखेलगामिनीखस्थाखण्डेन्दुतिलकप्रिया ।
खेचरीखेचरीवन्द्याख्यातिःख्यातिप्रदायिनी
खन्दितप्रणताघौघाखलबुद्धिविनाशिनी ।
खातैनःकन्दसन्दोहाखड्गखट्वाङ्गखेटिनी
खरसन्तापशमनीखनिःपीयूषपाथसाम् ।
गङ्गागन्धवतिगौरीगन्धर्वनगरप्रिया
गम्भीराङ्गीगुणमयीगतातङ्कागतिप्रिया ।
गणनाथाम्बिकागीतागद्यपद्यपरिष्टुता
गान्धारीगर्भशमनीगतिभ्रष्टगतिप्रदा ।
गोमतीगुह्यविद्यागौर्गोप्त्रीगगनगामिनी
गोत्रप्रवर्धिनीगुण्यागुणातीतागुणाग्रणीः ।
गुहाम्बिकागिरिसुतागोविन्दाङ्घ्रिसमुद्भवा
गुणनियचरित्राचगायत्रीगिरिशप्रिया ।
गूढरूपागुणवतीगुर्वीगौरववर्धिनी
ग्रहपीडाहरागुन्द्रागरघ्नीगानवत्सला ।
घर्महन्त्रीघृतवतीघृततुष्टिप्रदायिनी
घण्टारवप्रियाघोराऽघौघविध्वंसकारिणी ।
घ्राणतुष्टिकरीघोषाघनानन्दाघनप्रिया
घातुकार्घूणितजलाघृष्टपातकसन्ततिः ।
घटकृटिप्रपीतापाघटिताशेषमङ्गला
घृणवतीघृणनिधिर्घस्मराघूकनादिनी ।
घुसृणापिञ्जरतनुर्घर्घराघर्घरस्वना
चन्द्रिकाचन्द्रकान्ताम्बुश्चञ्चदापाचलद्युतिः ।
चिन्मयीचितिरूपाचचन्द्रायुतशतानना
चाम्पेयलोचनाचारुश्चार्वङ्गीचारुगामिनी ।
चार्याचारित्रनिलयाचित्रकृच्चित्ररूपिनी
चम्पूश्चन्दनशुच्यबुश्चर्चनीयाचिरस्थिरा ।
चारुचम्पकमालाढ्याचमिताशेषदुष्कृता
चिदाकाशवहाचिन्त्याचञ्चच्चामरवीजिता ।
चोरिताशेषवृचिनाचरिताशेषमण्डला
छेदिताखिलपापौघाछद्मघ्नीछलहारिणी ।
छन्नत्रिविष्टपतलाछोटिताशेषबन्धना
छुरितामृतधारौघाछिन्नैनाश्छन्दगामिनी ।
छत्रीकृतमरालौघाछटिकृतनिजामृता
जाह्नवीज्याजगन्माताजप्याजङ्घालवीचिका ।
जयाजनार्दनप्रीताजुषणीयाजगद्धिता
जीवनञ्जीवनप्राणाजगज्ज्येष्ठाजगन्मयी ।
जीवजीवातुलतिकाजन्मिजन्मनिबर्हिणी
जाड्यविध्वंसनकरीजगद्योनिर्जलाविला ।
जगदानन्दजननीजलजाजलजेक्षणा
जनलोचनपीयूषाजटातटविहारिणी ।
जयन्तीजञ्जपूकघ्नीजनितज्ञानविग्रहा
झल्लरीवाद्यकुशलाझलज्झालजलावृता ।
झिण्टीशवन्द्याझङ्कारकारिनीझर्झरावती
टीकिताशेषपातालाटङ्किकैनोद्रिपाटने ।
टङ्कारनृत्यत्कल्लोलाटीकनीयमहातटा
डम्बरप्रवहाडीनराजहंसकुलाकुला ।
डमड्डमरुहस्ताचडामरोक्तमहाण्डका
ढौकिताशेषनिर्वाणाढक्कानादचलज्जला ।
ढुण्ढिविघ्नेशजननीढणड्ढुणितपातका
तर्पणीतीर्थतीर्थाचत्रिपथात्रिदशेश्वरी ।
त्रिलोकगोप्त्रीतोयेशीत्रैलोक्यपरिवन्दिता
तापत्रितयसंहर्त्रीतेजोबलविवर्धिनी ।
त्रिलक्ष्यातारणीतारातारापतिकरार्चिता
त्रैलोक्यपावणीपुण्यातुष्टिदातुष्टिरूपिनी ।
तृष्णाछेत्रीतीर्थमातात्रिविक्रमपदोद्भवा
तपोमयीतपोरूपातपःस्तोमफलप्रदा ।
त्रैलोक्यव्यापिनीतृप्तिस्तृप्तिकृत्तत्त्वरूपिणी
त्रैलोक्यसुन्दरीतुर्यातुर्यातीतपदप्रदा ।
त्रैलोक्यलक्ष्मीस्त्रिपदीतथ्यातिमिरचन्द्रिका
तेजोगर्भातपःसारात्रिपुरारिशिरोगृहा ।
त्रयीस्वरूपिणीतन्वीतपनाङ्गजभीतिनुत्
तरिस्तरणिजामित्रन्तर्पिताशेषपूर्वजा ।
तुलाविरहितातीव्रपापतूलतनूनपात्
दारिद्र्यदमनीदक्षादुष्प्रेक्षादिव्यमण्डना ।
दीक्षावतीदुरावाप्याद्राक्षामधुरवारिभृत्
दर्शितानेककुतुकादुष्टदुर्जयदुःखहृत् ।
दैन्यहृद्दुरितघ्नीचदानवारिपदाब्जजा
दन्दशूकविषघ्नीचदारिताघौघसन्ततिः ।
द्रुतादेवद्रुमच्छन्नादुर्वाराघविघातिनी
दमग्राह्यादेवमातादेवलोकप्रदर्शिनी ।
देवदेवप्रियादेवीदिक्पालपददायिनी
दीर्घायुःकारिणीदीर्घादोग्घ्रीदूषणवर्जिता ।
दुग्धाम्बुवाहिणीदोह्यादिव्यादिव्यगतिप्रदा
द्युनदीदीनशरणन्देहिदेहनिवारिणी ।
द्राघीयसीदाघहन्त्रीदितपातकसन्ततिः
दूरदेशान्तरचरीदुर्गमादेववल्लभा ।
दुर्वृत्तघ्नीदुर्विगाह्यादयाधारादयावती
दुरासदादानशीलाद्राविणीद्रुहिणस्तुता ।
दैत्यदानवसंशुद्धिकर्त्रीदुर्बुद्धिहारिणी
दानसारादयासाराद्यावाभूमिविगाहिनी ।
दृष्टादृष्टफलप्राप्तिर्देवतावृन्दवन्दिता
दीर्घव्रतादीर्घदृष्टिर्दीप्ततोयादुरालभा ।
दण्डयित्रीदण्डनीतिर्दुष्टदण्डधरार्चिता
दुरोदरघ्नीदावार्चिर्द्रवद्द्रव्यैकशेवधिः ।
दीनसन्तापशमनीदात्रीदवथुवैरिणी
दरीविदारणपरादान्तादान्तजनप्रिया ।
दारिताद्रितटादुर्गादुर्गारण्यप्रचारिणी
धर्मद्रवाधर्मधुराधेनुर्धीराधृतिर्ध्रुवा ।
धेनुदानफलस्पर्शाधर्मकामार्थमोक्षदा
धर्मोर्मिवाहिनीधुर्याधात्रीधात्रीविभूषणम् ।
धर्मिणीधर्मशीलाचधन्विकृटिकृतावना
ध्यातृपापहराध्येयाधावनीधूतकल्मषा ।
धर्मधाराधर्मसाराधनदाधनवर्धिनी
धर्माधर्मगुणच्छेत्रीधत्तूरकुसुमप्रिया ।
धर्मेशीधर्मशास्त्रज्ञाधनधान्यसमृद्धिकृत्
धर्मलभ्याधर्मजलाधर्मप्रसवधर्मिणी ।
ध्यानगम्यस्वरूपाचधरणीधातृपूजिता
धूर्धूर्जटिजटासंस्थाधन्याधीर्धारणावती ।
नन्दानिर्वाणजननीनन्दिनीनुन्नपातका
निषिद्धविघ्ननिचयानिजानन्दप्रकाशिनी ।
नभोङ्गणचरीनूतिर्नम्यानारायणीनुता
निर्मलानिर्मलाख्यानानाशिनीतापसम्पदाम् ।
नियतानित्यसुखदानानाश्चर्यमहानिधिः
नदीनदसरोमातानायिकानाकदीर्घिका ।
नष्टोद्धरणधीराचनन्दनानन्ददायिनी
निर्णिक्ताशेषभुवनानिःसङ्गानिरुपद्रवा ।
निरालम्बानिष्प्रपञ्चानिर्णाशितमहामला
निर्मलज्ञानजननीनिःशेषप्राणितापहृत् ।
नित्योत्सवानित्यतृप्तानमस्कार्यानिरञ्जना
निष्ठावतीनिरातङ्कानिर्लेपानिश्चलात्मिका ।
निरवद्यानिरीहाचनीललोहितमूर्धगा
नन्दिभृङ्गिगणस्तुत्यानागानन्दानगात्मजा ।
निष्प्रत्यूहानाकनदीनिरयार्णवदीर्घनौः
पुण्यप्रदापुण्यगर्भापुण्यापुण्यतरङ्गिणी ।
पृथुःपृथुफलापूर्णाप्रणतार्तिप्रभञ्जिनी
प्राणदाप्राणिजननीप्राणेशीप्राणरूपिणी ।
पद्मालयापराशक्तिःपुरजित्परमप्रिया
परापरफलप्राप्तिःपावनीचपयस्विनी ।
परानन्दाप्रकृष्टार्थाप्रतिष्ठापालनीपरा
पुराणपठिताप्रीताप्रणवाक्षररूपिणी ।
पार्वतीप्रेमसम्पन्नापशुपाशविमोचनी
परमात्मस्वरूपाचपरब्रह्मप्रकाशिनी ।
परमानन्दनिष्पन्दाप्रायश्चित्तस्वरूपिणी
पानीयरूपनिर्वाणापरित्राणपरायणा ।
पापेन्धनदवज्वालापापारिःपापनामनुत्
परमैश्वर्यजननीप्रज्ञाप्राज्ञापरापरा ।
प्रत्यक्षलक्ष्मीःपद्माक्षीपरव्योमामृतस्रवा
प्रसन्नरूपाप्रणिधिःपूताप्रत्यक्षदेवता ।
पिनाकिपरमप्रीतापरमेष्ठिकमण्डलुः
पद्मनाभपदार्घ्येणप्रसूतापद्ममालिनी ।
परर्द्धिदापुष्टिकरीपथ्यापूर्तिःप्रभावती
पुनानापीतगर्भघ्नीपापपर्वतनाशिनी ।
फलिनीफलहस्ताचफुल्लाम्बुजविलोचना
फालितैनोमहाक्षेत्राफणिलोकविभूषणम् ।
फेनच्छलप्रणुन्नैनाःफुल्लकैरवगन्धिनी
फेनिलाच्छाम्बुधाराभाफुडुच्चाटितपातका ।
फाणितस्वादुसलिलाफाण्टपथ्यजलाविला
विश्वमाताचविश्वेशीविश्वाविश्वेश्वरप्रिया ।
ब्रह्मण्याब्रह्मकृद्ब्राह्मीब्रह्मिष्ठाविमलोदका
विभावरीचविरजाविक्रान्तानेकविष्टपा ।
विश्वमित्रंविष्णुपदीवैष्णवीवैष्णवप्रिया
विरूपाक्षप्रियकरीविभूतिर्विश्वतोमुखी ।
विपाशावैबुधीवेद्यावेदाक्षररसस्रवा
विद्यावेगवतीवन्द्याबृंहणीब्रह्मवादिनी ।
वरदाविप्रकृष्टाचवरिष्ठाचविशोधनी
विद्याधरीविशोकाचवयोवृन्दनिषेविता ।
बहूदकाबलवतीव्योमस्थाविबुधप्रिया
वाणीवेदवतीवित्ताब्रह्मविद्यातरङ्गिणी ।
ब्रह्माण्डकृटिव्याप्ताम्बुर्ब्रह्महत्यापहारिणी
ब्रह्मेशविष्णुरूपाचबुद्धिर्विभववर्धिनी ।
विलासिसुखदावैश्याव्यापिनीचवृषारणिः
वृषाङ्कमौलिनिलयाविपन्नार्तिप्रभञ्जिनी ।
विनीताविनताब्रध्नतनयाविनयान्विता
विपञ्चीवाद्यकुशलावेणुश्रुतिविचक्षणा ।
वर्चस्करीबलकरीबलोन्मूलितकल्मषा
विपाप्माविगतातङ्काविकल्पपरिवर्जिता ।
वृष्टिकर्त्रीवृष्टिजलाविधिर्विच्छिन्नबन्धना
व्रतरूपावित्तरूपाबहुविघ्नविनाशकृत् ।
वसुधारावसुमतीविचित्राङ्गीविभावसुः
विजयाविश्वबीजञ्चवामदेवीवरप्रदा ।
वृषाश्रिताविषघ्नीचविज्ञानोर्म्यंशुमालिनी
भव्याभोगवतीभद्राभवानीभूतभाविनी ।
भूतधात्रीभयहराभक्तदारिद्र्यघातिनी
भुक्तिमुक्तिप्रदाभेशीभक्तस्वर्गापवर्गदा ।
भागीरथीभानुमतीभाग्यम्भोगवतीभृतिः
भवप्रियाभवद्वेष्ट्रीभूतिदाभूतिभूषणा ।
भाललोचनभावज्ञाभूतभव्यभवत्प्रभुः
भ्रान्तिज्ञानप्रशमनीभिन्नब्रह्माण्डमण्डपा ।
भूरिदाभक्तिसुलभाभाग्यवद्दृष्टिगोचरी
भञ्जितोपप्लवकुलाभक्ष्यभोज्यसुखप्रदा ।
भिक्षणीयाभिक्षुमाताभावाभावस्वरूपिणी
मन्दाकिनीमहानन्दामातामुक्तितरङ्गिणी ।
महोदयामधुमतीमहापुण्यामुदाकरी
मुनिस्तुतामोहहन्त्रीमहातीर्थामधुस्रवा ।
माधवीमानिनीमान्यामनोरथपथातिगा
मोक्षदामतिदामुख्यामहाभाग्यजनाश्रिता ।
महावेगवतीमेध्यामहामहिमभूषणा
महाप्रभावामहतीमीनचञ्चललोचना ।
महाकारुण्यसम्पूर्णामहर्द्धिश्चमहोत्पला
मूर्तिमन्मुक्तिरमणीमणिमाणिक्यभूषणा ।
मुक्ताकलापनेपथ्यामनोनयननन्दिनी
महपातकराशिघ्नीमहादेवार्धहारिणी ।
महोर्मिमालिनीमुक्तामहादेवीमनोन्मनी
महापुण्योदयप्राप्यामायातिमिरचन्द्रिका ।
महाविद्यामहामायामहामेधामहौषधम्
मालाधरीमहोपायामहोरगविभूषणा ।
महामोहप्रशमनीमहामङ्गलमङ्गलम्
मार्तण्डमण्डलचरीमहालक्ष्मीर्मदोज्झिता ।
यशस्विनीयशोदाचयोग्यायुक्तात्मसेविता
योगसिद्धिप्रदायाज्यायज्ञेशपरिपूरिता ।
यज्ञेशीयज्ञफलदायजनीयायशस्करी
यमिसेव्यायोगयोनिर्योगिनीयुक्तबुद्धिदा ।
योगज्ञानप्रदायुक्तायमाद्यष्टाङ्गयोगयुक्
यन्त्रिताघौघसञ्चारायमलोकनिवारिणी ।
यातायातप्रशमनीयातनानामकृन्तनी
यामिनीशहिमाच्छोदायुगधर्मविवर्जिता ।
रेवतीरतिकृद्रम्यारत्नगर्भारमारतिः
रत्नाकरप्रेमपात्रंरसज्ञारसरूपिणी ।
रत्नप्रासादगर्भाचरमणीयतरङ्गिणी
रत्नार्चीरुद्ररमणीरागद्वेषविनाशिनी ।
रमारामारम्यरूपारोगिजीवातुरूपिणी
रुचिकृद्रोचनीरम्यारुचिरारोगहारिणी ।
राजहंसारत्नवतीराजत्कल्लोलराजिका
रामणीयकरेखाचरुजारीरोगरोषिणी ।
राकारङ्कार्तिशमनीरम्यारोलम्बराविणी
रागिणीरञ्जितशिवारूपलावण्यशेवधिः ।
लोकप्रसूर्लोकवन्द्यालोलत्कल्लोलमालिनी
लीलावतीलोकभूमिर्लोकलोचनचन्द्रिका ।
लेखस्रवन्तीलटभालघुवेगालघुत्वहृत्
लास्यत्तरङ्गहस्ताचललितालयभङ्गिगा ।
लोकबन्धुर्लोकधात्रीलोकृत्तरगुणोर्जिता
लोकत्रयहितालोकालक्ष्मीर्लक्षणलक्षिता ।
लीलालक्षितनिर्वाणालावण्यामृतवर्षिणी
वैश्वानरीवासवेड्यावन्ध्यत्वपरिहारिणी ।
वासुदेवाङ्घ्रिरेणुघ्नीवज्रिवज्रनिवारिणी
शुभावतीशुभफलाशान्तिःशान्तनुवल्लभा ।
शूलिनीशैशववयाःशीतलाऽमृतवाहिनी
शोभावतीशीलवतीशोषिताशेषकिल्बिषा ।
शरण्याशिवदाशिष्टाशरजन्मप्रसूःशिवा
शक्तिःशशाङ्कविमलाशमनस्वसृसंमता ।
शमाशमनमार्गघ्नीशितिकण्ठमहाप्रिया
शुचिःशुचिकरीशेषाशेषशायिपदोद्भवा ।
श्रीनिवासश्रुतिःश्रद्धाश्रीमतीश्रीःशुभव्रता
शुद्धविद्याशुभावर्ताश्रुतानन्दाश्रुतिस्तुतिः ।
शिवेतरघ्नीशबरीशाम्बरीरूपधारिणी
श्मशानशोधनीशान्ताशश्वच्छतधृतिष्टुता ।
शालिनीशालिशोभाढ्याशिखिवाहनगर्भभृत्
शंसनीयचरित्राचशातिताशेषपातका ।
षड्गुणैश्वर्यसम्पन्नाषडङ्गश्रुतिरूपिणी
षण्ढताहारिसलिलाष्ट्यायन्नदनदीशता ।
सरिद्वराचसुरसासुप्रभासुरदीर्घिका
स्वःसिन्धुःसर्वदुःखघ्नीसर्वव्याधिमहौषधम् ।
सेव्यासिद्धिःसतीसूक्तिःस्कन्दसूश्चसरस्वती
सम्पत्तरङ्गिणीस्तुत्यास्थाणुमौलिकृतालया ।
स्थैर्यदासुभगासौख्यास्त्रीषुसौभाग्यदायिनी
स्वर्गनिःश्रेनिकासूक्ष्मास्वधास्वाहासुधाजला ।
समुद्ररूपिणीस्वर्ग्यासर्वपातकवैरिणी
स्मृताघहारिणीसीतासंसाराब्धितरण्डिका ।
सौभाग्यसुन्दरीसन्ध्यासर्वसारसमन्विता
हरप्रियाहृषीकेशीहंसरूपाहिरण्मयी ।
हृताघसङ्घाहितकृद्धेलाहेलाघगर्वहृत्
क्षेमदाक्षालिताघौघाक्षुद्रविद्राविणीक्षमा ।
॥ उत्तरन्यासः ॥
इतिनामसहस्रंहिगङ्गायाःकलशोद्भव ।
कीर्तयित्वानरःसम्यग्गङ्गास्नानफलंलभेत्
सर्वपापप्रशमनंसर्वविघ्नविनाशनम् ।
सर्वस्तोत्रजपाच्छ्रेष्ठंसर्वपावनपावनम्
श्रद्धयाभीष्टफलदञ्चतुर्वर्गसमृद्धिकृत् ।
सकृज्जपादवाप्नोतिह्येकक्रतुफलंमुने
सर्वतीर्थेषुयःस्नातःसर्वयज्ञेषुदीक्षितः ।
तस्ययत्फलमुदिष्टन्त्रिकालपठनाच्चतत्
सर्वव्रतेषुयत्पुण्यंसम्यक्चीर्णेषुवाडव ।
तत्फलंसमवाप्नोतित्रिसन्ध्यंनियतःपठन्
स्नानकालेपठेस्तुयत्रकुत्रजलाशये ।
तत्रसन्निहितानूनङ्गङ्गात्रिपथगामुने
श्रेयोर्थीलभतेश्रेयोधनार्थीलभतेधनम् ।
कामीकामानवाप्नोतिमोक्षार्थीमोक्षमाप्नुयात्
वर्षन्त्रिकालपठनाच्छ्रद्धयाशुचिमानसः ।
ऋतुकालाभिगमनादपुत्रःपुत्रवान्भवेत्
नाकालमरणन्तस्यनाग्निचोराहिसाध्वसम् ।
नाम्नांसहस्रङ्गङ्गायायोजपेच्छ्रद्धयामुने
गङ्गानामसहस्रन्तुजप्त्वाग्रामान्तरंव्रजेत् ।
कार्यसिद्धिमवाप्नोतिनिर्विघ्नोगेहमाविशेत्
तिथिवारर्क्षयोगानांनदोषःप्रभवेत्तदा ।
यदाजप्त्वाव्रजेदेतत्स्तोत्रङ्ग्रामान्तरंनरः
आयुरारोग्यजननंसर्वोपद्रवनाशनम् ।
सर्वसिद्धिकरम्पुंसाङ्गङ्गानामसहस्रकम्
जन्मान्तरसहस्रेषुयत्पापंसम्यगर्जितम् ।
गङ्गानामसहस्रस्यजपनात्तत्क्षयंव्रजेत्
ब्रह्मघ्नोमपिःस्वर्णस्तेयीचगुरुतल्पगः ।
तत्संयोगीभ्रूणहन्तामातृहापितृहामुने
विश्वासघातीगरदःकृतघ्नोमित्रघातकः ।
अग्निदोगोवधकरोगुरुद्रव्यापहारकः
महापातकयुक्तोपिसंयुक्तोप्युपपातकैः ।
मुच्यतेश्रद्धयाजप्त्वागङ्गानामसहस्रकम्
आधिव्याधिपरिक्षिप्तोघोरतापपरिप्लुतः ।
मुच्यतेसर्वदुःखेभ्यःस्तवस्यास्यानुकीर्तनात्
संवत्सरेणयुक्तात्मापठन्भक्तिपरायणः ।
अभीप्सितांलभेत्सिद्धिंसर्वैःपापैःप्रमुच्यते
संशयाविष्टचित्तस्यधर्मविद्वेषिणोपिच ।
दाम्भिकस्यापिहिंस्रस्यचेतोधर्मपरम्भवेत्
वर्णाश्रमपथीनस्तुकामक्रोधविवर्जितः ।
यत्फलंलभतेज्ञानीतदाप्नोत्यस्यकीर्तनात्
गायत्र्ययुतजप्येनयत्फलंसमुपार्जितम् ।
सकृत्पठनतःसम्यक्तदशेषमवाप्नुयात्
गान्दत्त्वावेदविदुषेयत्फलंलभतेकृती ।
तत्पुण्यंसम्यगाख्यातंस्तवराजसकृज्जपात्
गुरुशुश्रूषणङ्कुर्वन्यावज्जीवंनरोत्तमः ।
यत्पुण्यमर्जयेत्तद्भाग्वर्षन्त्रिषवणञ्जपन्
वेदपारायणात्पुण्यंयदत्रपरिपठ्यते ।
तत्षण्मासेनलभतेत्रिसन्ध्यम्परिकीर्तनात्
गङ्गायाःस्तवराजस्यप्रत्यहम्परिशीलनात् ।
शिवभक्तिमवाप्नोतिविष्णुभक्तो अथवाभवेत्
यःकीर्तयेदनुदिनङ्गङ्गानामसहस्रकम् ।
तत्समीपेसहचरीगङ्गादेवीसदाभवेत्
सर्वत्रपूज्योभवतिसर्वत्रविजयीभवेत् ।
सर्वत्रसुखमाप्नोतिजाह्नवीस्तोत्रपाठतः
सदाचारीसविज्ञेयःसशुचिस्तुसदैवहि ।
कृतसर्वसुरार्चःसकीर्तये इमांस्तुतिम्
तस्मिंस्तृप्तेभवेत्तृप्ताजाह्नवीनात्रसंशयः ।
तस्मातसर्वप्रयत्नेनगङ्गाभक्तंसमर्चयेत्
स्तवराजमिमङ्गाङ्गंशृणुयाश्चिवैपठेत् ।
श्रावयेदथतद्भक्तान्दम्भलोभविवर्जितः
मुच्यतेक्षिविधैःपापैर्मनोवाक्कायसम्भवैः ।
क्षणान्निष्पापतामेतिपितॄणाञ्चप्रियोभवेत्
सर्वदेवप्रियश्चापिसर्वर्षिगणसंमतः ।
अन्तेविमानमारुह्यदिव्यस्त्रीशतसंवृतः
दिव्याभरणसम्पन्नेदिव्यभोगसमन्वितः ।
नन्दनादिवनेस्वैरन्देववत्सप्रमोदते
भुज्यमानेषुविप्रेषुश्राद्धकालेविशेषतः ।
जपन्निदंमहास्तोत्रम्पितॄणान्तृप्तिकारकम्
यावन्तितत्रसिक्थानियावन्तों अवुकणाःस्थिताः ।
तावन्त्येवहिवर्षाणिमोदन्तेस्वःपितामहाः
यथाप्रीणन्तिपितरोगङ्गायाम्पिण्डदानतः ।
तथैवतृप्नुयुःश्राद्धेस्तवस्यास्यानुसंश्रवात्
एतत्स्तोत्रङ्गृहेयस्यलिखितम्परिपूज्यते ।
तत्रपापभयंनास्तिशुचितद्भवनंसदा
अगस्तेकिम्बहूक्तेनशृणुमेनिश्चितंवचः ।
संशयोनात्रकर्तव्यःसन्देग्धरिफलंनहि
यावन्तिमर्त्येस्तोत्राणिमन्त्रजालान्यनेकशः ।
तावन्तिस्तवराजस्यगाङ्गेयस्यसमानिन
यावज्जन्मजपेस्तुनाम्नामेतत्सहस्रकम् ।
सकीकटेष्वपिमृतोनपुनर्गर्भमाविशेत्
नित्यंनियमवानेतोजिपेत्स्तोत्रमुत्तमम् ।
अन्यत्रापिविपन्नःसगङ्गातीरेमृतोभवेत्
एतत्स्तोत्रवरंरम्यम्पुराप्रोक्तम्पिनाकिना ।
विष्णवेनिजभक्तायमुक्तिबीजाक्षरास्पदम्
गङ्गास्नानप्रतिनिधिःस्तोत्रमेतन्मयेरितम् ।
सिस्नासुर्जाह्नवीन्तस्मादेतत्स्तोत्रञ्जपेतसुधीः
इतिश्रीस्कान्दमहापुराणे एकाशीतिसाहस्र्यां
संहितायाचतुर्थेकाशीखण्डेपूर्वार्द्धेगङ्गासहस्रनाम
कथनंनामैकोनत्रिंशत्तमो अध्यायः ॥
मूल पाठ: gaṅgāsahasranāmastotram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0