गणपतिहृदय्धारणी · भाग 11
(ग्फ्_10)
नमो भगवते आर्यमहागणपतिहृदयाय । नमो रत्नत्रयाय ॥
एवं मया श्रुतम् एकस्मिन् समये भगवान् राजगृहे विहरति स्म । गृध्रकूटपर्वते महता भिक्षुसंघेन सार्धम् अर्धत्रयोदशभिर् भिक्षुशतैः संबहुलैश् च बोधिसत्वैर् महासत्वैः । तेन खलु पुनः समयेन भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म ॥
यः कश्चित् कुलपुत्र आनन्द इमानि गणपतिहृदयानि धारयिष्यति वाचयिष्यति पर्यवाप्स्यति प्रवर्तयिष्यति तस्य सर्वाणि कार्यसिद्धानि भविष्यन्ति ॥
ओं नमो ऽस्तु ते महागणपतये स्वाहा ।
ओं गः गः गः गः गः गः गः गः ।
ओं नमो गणपतये स्वाहा ।
ओं गणाधिपतये स्वाहा ।
ओं गणेश्वराय स्वाहा ।
ओं गणपतिपूजिताय स्वाहा ।
ओं कट कट मट मट दर दर विदर विदर हन हन गृह्ण गृह्ण धाव धाव भञ्ज भञ्ज जम्भ जम्भ तम्भ (ग्फ्_11) तम्भ स्तम्भ स्तम्भ मोह मोह देह देह ददापय ददापय धनसिद्धि मे प्रयच्छ ।
ओं रुद्रावताराय स्वाहा ।
ओं अद्भुतविन्दुक्षुभितचित्तमहाहासम् आगच्छति ।
महाभयमहाबलपराक्रमाय महाहस्तिदक्षिणाय ददापय स्वाहा ।
ओं नमो ऽस्तु ते महागणपतये स्वाहा ।
ओं गः गः गः गः गः गः गः गः ।
ओं नमो गणपतये स्वाहा ।
ओं गणेश्वराय स्वाहा ।
ओं गणाधिपतये स्वाहा ।
ओं गणपतिपूजिताय स्वाह ।
ओं सुरु सुरु स्वाहा । ओं तुरु तुरु स्वाहा । ओं मुरु मुरु स्वाहा ।
इदम् आनन्द गणपतिहृदयानि ॥
यः कश्चित् कुलपुत्रो वा कुलदुहिता वा भिक्षुर् वा भिक्षुणी वा उपासको वा उपासिका वा । यः कश्चित् कार्यम् आलभते मन्त्रसाधनं वा त्रिरत्नपूजं वा देशान्तरगमनं वा राजकुलगमनं वा अन्तर्धानं वा तेन बुद्धभगवतां पूजां कृत्वा आर्यगणपतिहृदयं सप्तवारानुचारयितव्यं सर्वकार्याणि तस्य सिध्यन्ते नात्र शंसयः । सर्वकलिकलहमर्दमात्सरेषु नित्यं शमतव्यं सर्वप्रशमं गच्छति । दिनेदिने कल्पम् उत्थाय सर्वसप्तवारानुचारयितव्यं महासौभागे भविष्यति । (ग्फ्_12) राजकुलगमनकाले महाप्रासादो भविष्यन्ति । श्रुतिधरो भविष्यति । न चास्य काये महाव्याधयो भविष्यन्ति । न कश्चिद् एव तारप्रदक्षिणो ऽवतारं लप्स्यते भृङ्गो ऽवतारं लप्स्यति न चास्य बोधिचित्तोत्तराया भविष्यन्ति । जातौ जातौ जातिस्मरो भविष्यति ॥
इदम् अवोचत् भगवान् आत्तमनास् ते च भिक्षवस् ते बोधिसत्वा महासत्वाः सा च सर्वावती पर्षत् सदेवमानुषासुरगरुडगन्धर्वश् च लोको भगवतो भाषितम् अभ्यनन्दन्न् इति ॥
आर्यमहागणपतिहृदयं समाप्तम् ॥
मूल पाठ: Gaṇapatihṛdaydhāraṇī · Edition: Yutaka Iwamoto: Kleinere Dhāraṇī Texte, Kyoto 1937 (Beiträge zur Indologie, 2), pp. 10-12. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0