भाषा

ENहिગુ
ग्रंथ पाठ

ध्वजाग्रसूत्र · भाग 11

ध्वजाग्रसूत्र
1 एवं मया श्रुतम् । एकस्मिं समये भगवां श्रावस्त्यां विहरति स्म जेतवने अनाथपिण्डदस्यारामे ।
स्ह्त् इइइ 504 ओन्ल्य् श्रावस्त्याम्
2 तत्र भगवां भिक्षून् आमन्त्रयते स्म ।
स्ह्त् इइइ 504: आमन्त्रयति ।
3 सति वो भिक्षव अरण्यगतानां वा वृक्षमूलगतानां वा शून्यागारगतानां वा उत्पद्येत भयं वा छम्बितत्वं वा रोमहर्षो वा ।
4 मां यूयं तस्मिं समये आकारतः समनुस्मरत ।
5 इति हि स भगवांस् तथागतो ऽर्हां सम्यक्संबुद्धो विद्याचरणसंपन्न ः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथि ः शास्ता देवमनुष्याणां बुद्धो भगवां ।
6 मां वस् तस्मिं समये आकारतः समनुस्मरतां । यद् उत्पत्स्यते भयं वा छम्बितत्वं वा रोमहर्षो वा तत् प्रहास्यते ।
7 भूतपूर्वं भिक्षव ः शक्रो देवेन्द्रो देवासुरसंग्रामे प्रत्युपस्थिते देवांस् त्रायस्त्रिंशान् आमन्त्रयति ।
8 सति वो मारिषा देवासुरसंग्रामे समभिरूढाणाम् उत्पद्येत भयं वा छम्बितत्वं वा रोमहर्षो वा ।
9 मम वस् तस्मिं समये वैजयन्तो ध्वजाग्रः समनुस्मर्तव्यः । मम वस् तस्मिं समये वैजयन्तं ध्वजाग्रं समनुस्मरतां । यद् उत्पत्स्यते भयं वा छम्बितत्वं वा रोमहर्षो वा तत् प्रहास्यते ।
10 एवम् एव सति वो भिक्षव अरण्यगतानां वा वृक्षमूलगतानां वा शुन्यागारगतानां वा उत्पद्येत भयं वा छम्बितत्वं वा रोमहर्षो वा ।
11 मां यूयं तस्मिं समये आकारतः समनुस्मरत । इति हि स भगवां यावद् बुद्धो भगवां ।
थे चोम्प्लेते तेxत् wइथोउत् अब्ब्रेविअतिओन् अस् इन् परग्रफ् 5 "भगवांस् तथागतो ... बुद्द्धो भगवां" इस् अत्तेस्तेद् इन् स्ह्त् 581अ र्3-6, 596र्3-4, ओर्.15004।79+80र्w-z (एद्. इन् ब्ल्स्f इइ), 15007।288व्1-2 (एद्. इन् ब्ल्स्f इइइ), 15009।352र्4 एद्. (इन् ब्ल्स्f इइइ)
12 मां वस् तस्मिं समये आकारतः समनुस्मरतां यद् उत्पत्स्यते भयं वा छम्बितत्वं वा रोमहर्षो वा तत् प्रहास्यते ।
13 तत् कस्माद् धेतोः । स हि शक्रो देवेन्द्रः सरागः सद्वेषः समोह अपरिमुक्तो जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः अपरिमुक्तो दुःखाद् इति वदामि ।
14 भीरु छम्बी उत्त्रासी पलायी स एक द् आ बिभेत्य् अपि छंबत्य् अप्य् उत्त्रास् अ त्य् अपि पलायत्य् अपि ।
15 अहं खलु तथागतो लोके उत्पन्न अर्हां सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथि ः शास्ता देवमनुष्याणां बुद्धो भगवां ।
16 विगतरागो विगतद्वेषो विगतमोहः परिमुक्तो जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः परिमुक्तो दुःखाद् इति वदामि ।
17 अभीरुर् अच्छंबी अनुत्त्रासी अपलायी ।
18 तस्य मम भिक्षव अभीरुण अच्छम्बिन अनुत्त्रासिन अपलायिनः श्रोतव्यं वचनं कर्तव्यं अनुशासनं करणीयम् इदं स्थानम् इति ।
19 इदम् अवोचद् भगवां आप्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दम् ।
20 ध्वजाग्रसूत्रं । समाप्तः ॥

मूल पाठ: Dhvajāgrasūtra · Edition: E. Waldschmidt: "Kleine Brāhmī-Schriftrolle". IN: Nachrichten der Akademie der Wissenschaften in Göttingen 1959, pp. 8-13 [reprint in: E. Waldschmidt. Von Ceylon bis Turfan, Schriften zur Geschichte, Literatur, Religion und Kunst des indischen Kulturraumes (Festgabe zum 70. Geburtstag). Göttingen 1967, pp. 379-383]. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc