भाषा

ENहिગુ
ग्रंथ पाठ

ध्वजाग्रकेयूराधारिणी (अन्य संस्करण) · भाग 11

॥ सिद्धं नमो भगवत्यै आर्यध्वजाग्रकेयूरायै ॥
एवं मया श्रुतम् एकस्मिन् समये भगवान् देवेषु त्रयस्त्रिंशेषु विहरति स्म पाण्डुकम्बलशिलायाम्* । अथ खलु शक्रो देवानाम् इन्द्रो ऽसुरैर् जितः पराजितः सत्वरं त्वरमाणरूपो येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तम् एतद् अवोचत्* । इहाहं भगवन् वेमचित्रिणासुरेन्द्रेण जितः पराजितो देवास् त्रयस्त्रिंशाश् च जिताः पराजिताः । तत्रास्माभिर् भगवन् कथं प्रतिपत्तव्यम्* । भगवान् आह । उद्गृह्ण त्वं देवेन्द्र ध्वजाग्रकेयूरानामधारिणीम् अपराजितां या मया पूर्वं बोधिसत्वभूतेनापराजितध्वजस्य तथागतस्यान्तिकाद् उद्गृहीता । उद्गृह्य परेभ्यो विस्तरेण संप्रकाशिता । नाभिजानामि ततो ऽर्वाग् भयं वा स्तम्भितत्वं वा रोमहर्षनिमित्तं वान्तशः क्षणिकाम् अपि कायपीडाम्* ।
तत् कतमा सा भगवन् ध्वजाग्रकेयूरा नाम धारिणी अपराजिता ।
तद्यथा ओं जय 2 विजय 2 जयवाहिनि शङ्करि भयङ्करि प्रभञ्जनि रक्ष रक्ष आवधूतश्रीआलखवज्रं सपरिवारं सर्वसत्वांश् च । प्रत्यर्थिको वा प्रत्यमित्रो वाभिद्रवति । ओं जम्भय 2 स्तम्भय 2 मोहय 2 भगवति जयवाहिनि मथ मथ प्रमथ प्रमथ ग्रस ग्रस हस हस हूं हूं लम्भ लम्भ लम्बोदरि त्रिनेत्रे चतुर्वक्त्रे चतुर्दंष्ट्रे चतुर्भुजे असिमुशलचक्रत्रिशूलवज्रकवचमुद्राधारिणि रक्ष रक्ष आवधूतश्रीआलखवज्रं सपरिवारं सर्वसत्वांश् च भगवति सर्वोपद्रवोपसर्गोपायासेभ्यः । हे हे भगवति हन हन दह दह पच पच मथ मथ प्रमथ प्रमथ धुन धुन विधुन विधुन हूं हूं फट् फट्* भञ्ज भञ्ज परसैन्यं विध्वंसय आवधूतश्रीआलखवज्रस्य सपरिवारस्य सर्वशत्रून्* । ध्वजाग्रकेयूरे तृट तृट तृटु तृटु उल्काधारिणि त्रैलोक्यमथनि विध्वंसय परसैन्यम्* । रक्ष रक्ष आवधूतश्रीआलखवज्रं सपरिवारं सर्वसत्वांश् च सर्वोपद्रवेभ्यः । चल चल चिलि चिलि चुलु चुलु कल कल किलि किलि कुलु कुलु मुञ्च अट्टट्टहासम्* । विध्वंसय परसैन्यं त्रासय 2 भ्रामय 2 बुद्धसत्येन धर्मसत्येन संघसत्येन सत्यवादिनां सत्येन । बुद्धसत्यं मातिक्राम । धर्मसत्यं मातिक्राम । संघसत्यं मातिक्राम । सत्यवादिनां सत्यं मातिक्राम । लम्बोदरि 2 कुट कुट कुट्ट कुट्ट रुद्रम् आनय । विष्णुम् आनय । चन्द्रसूर्यम् आनय । त्रैलोक्याधिपतिम् आनय । सर्वदेवताधिपतिम् आनय । सर्वदेवतान् आनय । सर्वयक्षराक्षसकुम्भाण्डमहोरगनागान् आनय । विध्वंसय परसैन्यम्* । रङ्ग रङ्ग रङ्गापय रङ्गापय ज्वल ज्वल पुष्पमालिनि रुन्ध रुन्ध रिटि रिटि चिटि चिटि भृकुटी मुखि परसैन्यं कुलोमोदनकरि हल हल हिलि हिलि हुलु हुलु हूं हूं हे हे रिणि रिणि रिणमति जम्भ । ध्वजे बुद्धावलोकिते रक्ष रक्ष आवधूतश्रिआलखवज्रं सपरिवारं सर्वसत्वांश् च सर्वतथागतावलोकिते स्वाहा । गुणराजप्रभासे स्वाहा । सूर्यार्कविमले स्वाहा । चन्द्रार्कविमले स्वाहा । सर्वग्रहनक्षत्रध्यामीकरणे स्वाहा । हूं हूं रक्ष रक्ष आवधूतश्रीआलखवज्रं सपरिवारं सर्वसत्वांश् च सर्वभयेभ्यः स्वाहा ॥
इयं सा देवेन्द्र ध्वजाग्रकेयूरा नाम धारिणी अपराजिता । यत्र क्वचिद् गच्छेद् युद्धे वा कलहे वा विग्रहे वा विवादे वा सर्वत्र विजयो भविष्यति । ध्वजाग्रे कण्ठे वा बद्ध्वा धारयितव्या मनुष्यराज्ञा शूरपुरुषाणां च सर्वेषां रक्षां करोति । स्त्रीरूपधारिणी भूत्वा पुरतस् तिष्ठति । अभयं ददाति रक्षां करोति परसैन्यं विद्रावयति । माङ्गल्यं पवित्रं श्रीलक्ष्मीं संस्थापिका ।
इदम् अवोचद् भगवान्* । आत्तमनाः शक्रदेवेन्द्रस् ते च भिक्षवस् ते च बोधिसत्वा भगवतो भाषितम् अभ्यनन्दन्न् इति ॥ ॥
आर्यध्वजाग्रकेयूरा नाम धारिणी समाप्ता ॥
ओं भगवति ध्वजाग्रकेयूरे परसैन्यविध्वंसनकरि । स्वसैन्यपरिपालनकरि । उल्कामुखि । ख ख । खाहि खाहि । परसैन्यम् अनन्तमुखेनानन्तभुजेन प्रहर प्रहर । हूं हूं । फट् फट् स्वाहा ॥
आर्यध्वजाग्रकेयूराहृदयं समाप्तम्* ॥ ॥

मूल पाठ: Dhvajāgrakeyūrādhāriṇī · Edition: Paolo Giunta. "The Āryadhvajāgrakeyūrā nāma dhāriṇī - Diplomatic Edition of MS Tucci 3.2.16, Sanskrit Texts from Giuseppe Tucci's Collection, Part I, ed. Francesco Sferra, Roma 2008 (Manuscripta Buddhica, 1), pp. 187-194. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc