भाषा

ENहिગુ
ग्रंथ पाठ

देवीगीता · अध्याय 10

10.1

इति देवीगीतायां नवमो ऽध्यायः -
इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे देवीगीतायामेकोनचत्वारिंशो ऽध्यायः
दशमो ऽध्यायः
सप्तमः स्कन्धः
अथ चत्वारिंशो ऽध्यायः
श्री देव्युवाच
प्रातरुत्थाय शिरसि संस्मरेत्पद्ममुज्ज्वलम् ।
कर्पूराभं स्मरेत्तत्र श्रीगुरुं निजरूपिणम्

10.2

सुप्रसन्न् अं लसद्भूषाभूषितं शक्तिसंयुतम् ।
नमस्कृत्य ततो देवीं कुण्डलीं संस्मरेद्बुधः

10.3

प्रकाशमानां प्रथमे प्रयाणे प्रतिप्रयाणे ऽप्यमृतायमानाम् ।
अन्तः पदव्यामनुसञ्चरन्तीमानन्दरूपामबलां प्रपद्ये

10.4

ध्यात्वैवं तच्छिखामध्ये सच्चिदानन्दरूपिणीम् ।
मां ध्यायेदथ शौचादित्रियाः सर्वाः समापयेत्

10.5

अग्निहोत्रं ततो हूत्वा मत्प्रीत्यर्थं द्विजोत्तमः ।
होमान्ते स्वासने स्थित्वा पूजासङ्कल्पमाचरेत्

10.6

भूतशुद्धिं पुरा कृत्वा मातृकान्यासमेव च ।
हृल्लेखामातृकान्यासं नित्यमेव समाचरेत्

10.7

मूलाधारे हकारं च हृदये च रकारकम् ।
भ्रूमध्ये तद्वदीकारं ह्रीङ्कारं मस्तके न्यसेत्

10.8

तत्तन्मन्त्रोदितानन्यान्न्यासान्सर्वान्समाचरेत् ।
कल्पयेत्स्वात्मनो देहे पीठं धर्मादिभिः पुनः

10.9

ततो ध्यायेन्महादेवीं प्राणायामैर्विजृम्भिते ।
हृदम्भोजे मम स्थाने पञ्चप्रेतासने बुधः

10.10

ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
एते पञ्च महाप्रेताः पादमूले मम स्थिताः

10.11

पञ्चभूतात्मका ह्येते पञ्चावस्थात्मका अपि ।
अहं त्वव्यक्तचिद्रूपा तदतीतास्ति सर्वथा

10.12

ततो विष्टरतां याताः शक्तितन्त्रेषु सर्वदा ।
ध्यात्वैवं मानसैर्भोगैः पूजयेन्मां जपेदपि

10.13

जपं समर्प्य श्रीदेव्यै ततो ऽर्घ्यस्थापनं चरेत् ।
पात्रासादनकं कृत्वा पूजाद्रव्याणि शोधयेत्

10.14

जलेन तेन मनुना चास्त्रमन्त्रेण देशिकः ।
दिग्बन्धं च पुरा कृत्वा गुरून् नत्वा ततः परम्

10.15

तदनुज्ञां समादाय बाह्यपीठे ततः परम् ।
हृदिस्थां भवितां मूर्तिं मम दिव्यां मनोहराम्

10.16

आवाहयेत्ततः पीठे प्राणस्थापनविद्यया ।
असनावाहने चार्घ्यं पाद्याद्याचमनं तथा

10.17

स्नानं वासोद्वयं चैव भूषणानि च सर्वशः ।
गन्धपुष्पं यथायोग्यं दत्त्वा देव्यै स्वभक्तितः

10.18

यन्त्रस्थानामावृतीनीं पूजनं सम्यगाचरेत् ।
प्रतिवारमशक्तानां शुक्रवारो नियम्यते

10.19

मूलदेवीप्रभारूपाः स्मर्तव्या अङ्गदेवताः ।
तत्प्रभापटलव्याप्तं त्रैलोक्यं च विचिन्तयेत्

10.20

पुनरावृत्तिसहितां मूलदेवीं च पूजयेत् ।
गन्धादिभिः सुगन्धैस्तु तथा पुष्पैः सुवासितैः

10.21

नैवेद्यैस्तर्पणैश्चैव ताम्बूलैर्दक्षिणादिभिः ।
तोषयेन्मां त्वत्कृतेन नाम्नां साहस्रकेण च

10.22

कवचेन च सूक्तेनाहं रुद्रेभिरिति प्रभो ।
देव्यथर्वशिरोमन्त्रैर्हृल्लेखोपनिषद्भवैः

10.23

महाविद्यामहामन्त्रैस्तोषयेन्मां मुहुर्मुहुः ।
क्षमापयेज्जगद्धात्रीं प्रेमार्द्रहृदयो नरः

10.24

पुलकाङ्कितसर्वाङ्गैर्बाष्परुद्धाक्षिनिःस्वनः ।
नृत्यगीतादिघोषेण तोषयेन्मां मुहुर्मुहुः

10.25

वेदपारायनैश्चैव पुराणैः सकलैरपि ।
प्रतिपाद्या यतो ऽहं वै तस्मात्तैस्तोषयेत्तु माम्

10.26

निजं सर्वस्वमपि मे सदेहं नित्यशो ऽर्पयेत् ।
नित्यहोमं ततः कुर्याद्ब्राह्मणांश्च सुवासिनीः

10.27

बटुकान्पामरानन्यान्देवीबुद्ध्या तु भोजयेत् ।
नत्वा पुनः स्वहृदये व्युत्क्रमेण विसर्जयेत्

10.28

सर्वं हृल्लेखया कुर्यात् पूजनं मम सुब्रत ।
हृल्लेखा सर्वमन्त्राणां नायिका परमा स्मृता

10.29

हृल्लेखादर्पणे नित्यमहं तत्प्रतिबिम्बिता ।
तस्माद् हृल्लेखया दत्तं सर्वमन्त्रैः समर्पितम्

10.30

गुरुं सम्पूज्य भूषाद्यैः कृतकृत्यत्वमावहेत् ।
य एवं पूजयेद्देवीं श्रीमद्भुवनसुन्दरीम्

10.31

न तस्य दुर्लभं किञ्चित् कदाचित् क्वचिदस्ति हि ।
देहान्ते तु मणिद्वीपं मम यात्येव सर्वथा

10.32

ज्ञेयो देवीस्वरूपो ऽसौ देवा नित्यं नमन्ति तम् ।
इति ते कथितं राजन् महादेव्याः प्रपूजनम्

10.33

विमृश्यैतदशेषेणाप्यधिकारानुरूपतः ।
कुरु मे पूजनं तेन कृतार्थस्त्वं बविष्यसि

10.34

इदं तु गीताशास्त्रं मे नाशिष्याय वदेत् क्वचित् ।
नाभक्ताय प्रदातव्यं न धूर्ताय च दुर्हृदे

10.35

एतत्प्रकाशनं मातुरुद्धाटनमुरोजयोः ।
तस्मादवश्यं यत्नेन गोपनीयमिदं सदा

10.36

देयं भक्ताय शिष्याय ज्येष्ठपुत्राय चैव हि ।
सुशीलाय सुवेषाय देवीभक्तियुताय च

10.37

श्राद्धकाले पठेदेतद् ब्राह्मणानाम् समीपतः ।
तृप्तास्तत्पितरः सर्वे प्रयान्ति परमं पदम्

10.38

व्यास उवाच
इत्युक्त्वा सा भगवती तत्रैवान्तरधीयत ।
देवाश्च मुदिताः सर्वे देवीदर्शनतो ऽभवन्

10.39

ततो हिमालये जज्ञे देवी हैमवती तु सा ।
या गौरीति प्रसिद्धासीद्दत्ता सा शङ्कराय च

10.40

ततः स्कन्दः समुद्भूतस्तारकस्तेन पातितः ।
समुद्रमन्थने पूर्वं रत्नान्यासुर्नराधिप

10.41

तत्र देवैः स्तुता देवी लक्ष्मीप्राप्त्यर्थमादरात् ।
तेषामनुग्रहार्थाय निर्गता तु रमा ततः

10.42

वैकुण्ठाय सुरैर्दत्ता तेन तस्य शमो ऽभवत् ।
इति ते कथितं राजन् देवीमाहात्म्यमुत्तमम्

10.43

गौरीलक्ष्म्योः समुद्भूतिविषयं सर्वकामदम् ।
न वाच्यं त्वेतदन्यस्मै रहस्यं कथितं यतः

10.44

गीता रहस्यभूतेयं गोपनीया प्रयत्नतः ।
सर्वमुक्तं स्मसेन यत्पृष्टं तत्त्वयानघ

10.45

पवित्रं पावनं दिव्यं किं भूयः श्रोतुमिच्छसि

मूल पाठ: Devīgītā (= Devībhāgavata-Purāṇa 7,31-40) · Data entry Ursula Honegger · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc