भाषा

ENहिગુ
ग्रंथ पाठ

dattastavastrotrama · अध्याय 1

1

भूतप्रेतपिशाचाद्या यस्य स्मरणमात्रतः ॥
दूरादेव पलायन्ते दत्तात्रेयं नमामि तं

2

यन्नमस्मरणाद्-दैन्यं पापं तापश्च नश्यति ॥
भीतिग्रहर्तिदु:स्वप्नं दत्तात्रेयं नमामि तं

3

दद्रुस्फोटककुष्ठादि महामारी विषूचिका ॥
नश्यन्ति अन्येस्पि रोगाश्च दत्तात्रेयं नमामि तं

4

संगजा देशकालोत्था अपि सांक्रमिका गदा: ॥
शाम्यन्ति यत्स्मरणतो दत्तात्रेयं नमामि तं

5

सर्पवृश्चिकदष्टानां विषार्तानां शरीरिणाम ॥
यन्नाम शान्तिदं शीघं दत्तात्रेयं नमामि तं

6

त्रिविधोत्पातशमनं विविधारिष्टनाशनम ॥
यन्नाम क्रूरभीतिघ्नं दत्तात्रेयं नमामि तं

7

वैयादिकृतम्न्त्रादिप्रयोगा यस्य कीर्तनात ॥
नश्यन्ति देवबाधाश्च दत्तात्रेयं नमामि तं

8

यच्छिष्यस्मरणात्सद्यो गतनष्टादि लभ्यते ॥
य ईश: सर्वतस्त्राता दत्तात्रेयं नमामि तं

9

जयलाभयशःकामदातुर्दत्तस्य यः स्तवम ॥
भोगमोक्षप्रदस्येमं पठेद्-दत्तप्रियो भवेत

इति श्रीवासुदेवानन्दसरस्वतीविरचितं
दत्तस्तवस्तोत्रं संपूर्णम ॥

मूल पाठ: dattastavastrotrama · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc