भाषा

ENहिગુ
ग्रंथ पाठ

चण्डिकाष्टकम् · अध्याय 1

1

.. चण्डिकाष्टकम् ..
सहस्रचन्द्रनित्दकातिकान्त- चन्द्रिकाचयै-
दिशोऽभिपूरयद् विदूरयद् दुराग्रहं कलेः ।
कृतामलाऽवलाकलेवरं वरं भजामहे
महेशमानसाश्रयन्वहो महो महोदयम्

2

विशाल- शैलकन्दरान्तराल- वासशालिनीं
त्रिलोकपालिनीं कपालिनी मनोरमामिमाम् ।
उमामुपासितां सुरैरूपास्महे महेश्वरीं
परां गणेश्वरप्रसू नगेश्वरस्य नन्दिनीम्

3

अये महेशि! ते महेन्द्रमुख्यनिर्जराः समे
समानयन्ति मूर्द्धरागत परागमंघ्रिजम् ।
महाविरागिशंकराऽनुरागिणीं नुरागिणी
स्मरामि चेतसाऽतसीमुमामवाससं नुताम्

4

भजेऽमरांगनाकरोच्छलत्सुचाम रोच्चलन्
निचोल- लोलकुन्तलां स्वलोक- शोक- नाशिनीम् ।
अदभ्र- सम्भृतातिसम्भ्रम- प्रभूत- विभ्रम-
प्रवृत- ताण्डव- प्रकाण्ड- पण्डितीकृतेश्वराम्

5

अपीह पामरं विधाय चामरं तथाऽमरं
नुपामरं परेशिदृग्- विभाविता- वितत्रिके ।
प्रवर्तते प्रतोष- रोष- खेलन तव स्वदोष-
मोषहेतवे समृद्धिमेलनं पदन्नुमः

6

भभूव्- भभव्- भभव्- भभाभितो- विभासि भास्वर-
प्रभाभर- प्रभासिताग- गह्वराधिभासिनीम् ।
मिलत्तर- ज्वलत्तरोद्वलत्तर- क्षपाकर
प्रमूत- भाभर- प्रभासि- भालपट्टिकां भजे

7

कपोतकम्बु- काम्यकण्ठ- कण्ठयकंकणांगदा-
दिकान्त- काश्चिकाश्चितां कपालिकामिनीमहम् ।
वरांघ्रिनूपुरध्वनि- प्रवृत्तिसम्भवद् विशेष-
काव्यकल्पकौशलां कपालकुण्डलां भजे

8

भवाभय- प्रभावितद्भवोत्तरप्रभावि भव्य
भूमिभूतिभावन प्रभूतिभावुकं भवे ।
भवानि नेति ते भवानि! पादपंकजं भजे
भवन्ति तत्र शत्रुवो न यत्र तद्विभावनम्

9

दुर्गाग्रतोऽतिगरिमप्रभवां भवान्या
भव्यामिमां स्तुतिमुमापतिना प्रणीताम् ।
यः श्रावयेत् सपुरूहूतपुराधिपत्य
भाग्यं लभेत रिपवश्च तृणानि तस्य

10

रामाष्टांक शशांकेऽब्देऽष्टम्यां शुक्लाश्विने गुरौ ।
शाक्तश्रीजगदानन्दशर्मण्युपहृता स्तुतिः

॥ इति कविपत्युपनामक- श्री उमापतिद्विवेदि- विरचितं चण्डिकाष्टकं
सम्पूर्णम् ॥

मूल पाठ: caṇḍikāṣṭakam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc