ग्रंथ पाठ
बृहत्पाराशरहोराशास्त्रम् · अध्याय 38
38.38
अथ रवियोगाध्यायः
38.1
सूर्यात् स्वन्त्योभयस्थैश्च विना चन्द्रं कुजादिभिः।
वेशिवोशिसमाख्यौ च तथोभयचरः क्रमात्
38.2
समदृक् सत्यवाङ् मर्त्यो दीर्घकायोऽलसस्तथा।
सुखभागल्पवित्तोऽपि वेशियोगसमुद्भवः
38.3
वोशौ च निपुणो दाता यशोविद्याबलावन्तिः।
तथोभयचरे जातो भूपो वा तत्समः सुखी
38.4
शुभग्रहभवे योगे फलमेवं विचिन्तयेत्।
पापग्रहसमुत्पन्ने योगे तु फलमन्यथा
मूल पाठ: bṛhatpārāśarahorāśāstram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0