भाषा

ENहिગુ
ग्रंथ पाठ

बृहज्जातक · अध्याय 14

14.01

तिग्म.अंशुर्.जनयत्य्.उषेश.सहितो.यन्त्र.अश्म.कारं.नरं.भौमेन.अघरतं.बुधेन.निपुणं.धी.कीर्ति.सौख्य.अन्वितम्।
क्रूरं.वाक्.पतिना.अन्य.कार्य.निरतं.शुक्रेण.रङ्ग.आयुधैर्.लब्धस्वं.रविजेन.धातु.कुशलं.भ.अण्ड.प्रकारेषु.वा॥(शा.वि)

14.02

कूट.स्त्र्य्.आसव.कुम्भ.पण्यम्.अशिवं.मातुः.स.वक्रः.शशी।स.ज्ञः.प्रश्रित.वाक्यम्.अर्थ.निपुणं.सौभाग्य.कीर्त्या.अन्वितम्।
विक्रान्तं.कुल.मुख्यम्.अस्थिर.मतिं.वित्त.ईश्वरं.स.अङ्गिरा।वस्त्राणां.स.सितः.क्रिया.आदि.कुशलं.स.अर्किः.पुनर्भू.सुतम्॥(शा.वि)

14.03

मूल.आदि.स्नेह.कूटैर्.व्यवहरति.वणिग्.बाहु.योद्धा.स.सौम्ये।पुर्यध्यक्षः.स.जीवे.भवति.नर.पतिः.प्राप्त.वित्तो.द्विजो.वा।
गोपो.मल्लो.अथ.दक्षः.पर.युवति.रतो.द्यूत.कृत्.सासुरेज्ये.दुःख.आर्तो.असत्य.संधः.स.सवितृ.तनये.भूमिजे.निन्दितश्.च॥(श.वि)

14.04

सौम्ये.रङ्ग.चरो.बृहस्पति.युते.गीत.प्रियो.नृत्यविद्.वाग्मी.भू.गणपः.सितेन.मृदुना.माया.पटुर्.लङ्घकः।
सद्.विद्यो.धन.दारवान्.बहु.गुणः.शुक्रेण.युक्ते.गुरौ.ज्ञेयः.श्मश्रु.करो.असितेन.घटकृज्.जातो.अन्न.कारो.अपि.वा॥(शा.वि)

14.05

असित.सित.समागमे.अल्प.चक्षुर्.युवति.समाश्रय.सम्प्रवृद्ध.वित्तः।
भवति.च.लिपि.पुस्तक.चित्र.वेत्ता.कथित.फलैः.परतो.विकल्पनीयाः॥(पुष्पिताग्रा)ए14

मूल पाठ: Bṛhajjātaka · Edition: of Oriental Books Reprint Corporation, Second Edition, 1979 · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc