भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 4.58

4.58.1

अथाष्टपञ्चाशात्तमोऽध्यायः
नारायण उवाच
बभूव दर्पः पृथ्व्याश्च सर्पाधाराऽहमेव च ।
पृथृद्वारा च तद्दर्पं जघान चैव तत्प्रभुः

4.58.2

बभूव दर्पः साविञ्या वेदमाताऽहमेव च ।
काले चकार तस्याश्च सपुत्राया अदर्शनम्

4.58.3

बभूव दर्पं गङ्गया अहं निवणिदेति च ।
जह्नुद्वारा च तद्दर्प जहार जगतां पतिः

4.58.4

जहार मनसादर्प दुर्गाद्वारा पुरा मुने ।
विरजोपगतं कृष्णं भर्त्सयामास कोपतः

4.58.5

प्रविशन्तं रासगुहं गोपीभिर्विनिवारितम् ।
दौवारिकाभिर्वेत्रैश्च ताडितं तं च दर्पतः

4.58.6

सुदाम्ना निजभक्तेन राधा शप्ता बभूव ह ।
देवेन सहसा ध्वस्ता गोलोकादागता धराम्

4.58.7

वृषभानुस्त्रियां जाता कलावत्यां च नारद ।
कृष्णस्तदनुरौधेन कंसभीतिच्छलेन च

4.58.8

समागतो नन्दगेहं तेनाहं नन्दनन्दनः ।
सुदाम्नः शापवीच्छैदपालनार्थ जगत्पतिः

4.58.9

पुनर्जगाम मथुरामित्याह कमलोद्भवः ।
अस्यापरमभिप्रायं को वा जनाति नारद

4.58.10

कथं जातः समायाते सथुरायाश्च गोकुलम् ।
इत्येवं कथितं सर्वमपरं श्रूयतामिति

4.58.11

यथा जगाम मथुरां नन्दान्स नन्दनन्दनः ।
शोकं नन्दो यशोदा च यथा संप्रप दैवतः

4.58.12

यथा गोपाश्च गोप्यश्च गावो वृन्दावने वने ।
वने वने का वन्यास्ते वन्या जानन्ति किंचन

4.58.13

वनं रम्यं वन्यपदमपि त्यक्तवा वने वने ।
श्मशाने वाऽश्मशाने वा बभ्राम भामिनी मुने

4.58.14

ग्रमं त्यक्त्वा च बभ्रम चेतनाऽचेतना क्षणम् ।
क्षणेन वर्जिता सा च प्रार्थयान्ती प्रतिक्षणम्

4.58.15

क्षणं क्षणं सा श्वसिति चिन्तनं कुर्वती क्षणम् ।
क्षणं विशन्ती तल्पे च क्षणम्त्थाय तिष्ठति

4.58.58

इति श्रीब्रह्मओ महाओ श्रीकृष्णजन्मखओ उत्तओ नारदनाओ
अष्टपप़ञ्चाशत्तमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc