भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 4.108

4.108.1

अथाष्टाधिकशततमोऽध्यायः
नारायाण उवाच
एतस्मिन्नन्तरे देवी महालक्ष्मीश्च रुक्मिणी ।
आजगाम सभामध्ये मुनिदेवादिभिर्युते

4.108.2

रत्नसिंहासनस्था च रत्नालंकारभूषिता ।
वह्निशुद्धाशुकाधाना कबरीभारभूषिता

4.108.3

पश्यन्ती सस्मिता साध्वीह्यमूल्यरत्नदर्पणम् ।
कस्तूरीबिन्दुभिर्युक्ता स्निग्धचन्दनचर्चिता

4.108.4

सिधूरबिदुना शश्वद्भालमध्यस्थलोज्ज्वला ।
तप्तकाञ्चनवर्णभा शतचन्द्रसमप्रभा

4.108.5

चन्दनोक्षितमर्वाङ्गा मालतीमाल्यशोभिता ।
सप्तभिर्नृपपुत्रैश्चसमानीता च बालकैः

4.108.6

देवेन्द्राश्च मुनीन्द्राश्च सिद्धेन्द्रा नृपपुंगवाः ।
ददृशू रुक्मिणीं देवीं महालक्ष्मीं पतिव्रताम्

4.108.7

सप्तप्रदक्षिणाःकृत्वा प्रणम्य स्वपतिंसती ।
सिषेच शीततोयेन स्निग्धचन्दनपल्लवैः

4.108.8

तां सिषेच जगत्कान्तः कान्ता शान्तां च सस्मिताम् ।
ददर्श कान्तः कान्तां च कान्तं कान्ता शुभे क्षणे

4.108.9

अथ देवी पितुः क्रोडे समुवास शुभानना ।
लज्जया नम्रवदना ज्वलन्ती च स्वतेजसा

4.108.10

राजा देवेश्वरीं तस्मै परिबूर्णतमाय च ।
प्रददौ संप्रदानेन वेदमन्त्रेण नारद

4.108.11

वसुदेवाज्ञया कृष्णः स्वस्तीत्युक्त्वा स्थितो मुदा ।
जग्राह देवीं देवश्च भवानीं च भवो यथा

4.108.12

सुवर्णानां पञ्चलक्षं कृष्णाय परमात्मने ।
दक्षिणां तां ददौ राजा परिपूर्णतमाय च

4.108.13

शुभकर्मणि निष्पन्ने कृत्वा कन्यां च वक्षसि ।
रुरोद राजा मोहेन मुनिदेवेन्द्रसंसदि

4.108.14

परिहारेण वचसा कुत्वा तस्मै समर्पणम् ।
सिषेच कन्यां धन्यां च नेत्रयुग्मजलेन च

4.108.108

इति श्रीब्रह्मओ महाओ श्रीकृष्णजन्मखओ उत्तओ नारदनाओ रुक्मिण्यु-
द्वाहेऽष्टाधिकशाततमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc