भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र2 (टीका सहित) · अध्याय 24

24.1

॥ इति प्रथमाध्याये ऽव्यक्तादिसंदिग्धपदमात्रसमन्वयाख्यश्चतुर्थः पादः ॥
॥ इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्ये समन्वयाख्यः प्रथमो ऽध्यायः ॥
द्वितीयो ऽध्यायः ।
[द्वितीये अविरोधाख्याध्याये प्रथमपादे सांख्ययोगकारणादादिस्मृतिभिः सांख्यादिप्रयुक्ततर्कैश्च वेदान्तसमन्वयविरोधपरिहारः]
अथ द्वितीयो ऽध्यायः ।
सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकारिणे ।
नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे

24.2

सांख्यादिस्मृतियुक्तिभिर्न चलितो वेदान्तसिद्धान्तगो निर्मूलैर्विविधागमैरविदितो व्योमादिजन्माप्ययः ।
उत्पत्त्यन्तविवर्जितश्चितिवपुर्व्यापि च कर्तांशको लिङ्गेन प्रथितो ऽपि नामतनुकृत्तं जानकीशं भजे

मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc