ब्राह्मस्फुटसिद्धान्त · अध्याय 21
राशि-%अष्ट-अंशेषु अङ्कान् पद-सन्धिभ्यस् क्रम-उत्क्रमात् कृत्वा।
बध्नीयात् सूत्राणि %द्वयोस् %द्वयोस् ज्यास् तद्-%अर्धानि॥
ज्या-%अर्धानि ज्या-%अर्धानाम् ज्या-खण्डानि अन्तराणि।
व्यस्तानि अन्त्यात् अथ वा इषुस् उत्क्रम-ज्या धनुस् ताभ्याम्॥
%एक-%द्वि-%त्रि-गुणायास् व्यास-%अर्ध-कृतेस् पृथक् %चतुर्थेभ्यस्।
मूलानि %अष्ट-%द्वादश-%षोडश-खण्डानि अतस् अन्यानि॥
तुल्य-क्रम-उत्क्रम-ज्या-सम-खण्डक-वर्ग-युति-%चतुर्-भागम्।
प्रोह्य अनष्टम् व्यास-%अर्ध-वर्गतस् तद्-पदे %प्रथमम्॥
तद्-#दल-खण्डानि तद्-ऊन-#जिन-समानि %द्वितीयम् उत्पत्तौ।
#कृत-#यमल-%एक-#दिश्-#ईश-#इषु-%सप्त-#रस-#गुण-%नव-आदीनाम्॥
एवम् जीवा-खण्डानि अल्पानि बहूनि वा आद्य-खण्डानि।
ज्या-%अर्धानि वृत्त-परिधेस् %षष्ठ-%चतुर्थ-%त्रि-भागानाम्॥
उत्क्रम-सम-खण्ड-गुणात् व्यासात् अथ वा %चतुर्थ-भागात् यत्।
कृत्वा उक्त-खण्डकानि ज्या-%अर्ध-आनयनम् न लघु अस्मात्॥
मूल पाठ: Brāhmasphuṭasiddhānta · Edition: S. Dvivedin's edition, Benares 1902. · Data entry Takao Hayashi · GRETIL (Göttingen) · CC BY-NC-SA 4.0