ग्रंथ पाठ
ब्रह्माण्ड पुराण · अध्याय 2.70
2.70.1
इति श्रीब्रह्माण्डे महोपुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे भार्गवचरिते कार्त्तवीर्यसंभवो नाम एकोनसप्ततितमो ऽध्यायः
ऋषय ऊचुः
किमर्थं तु वनं दग्धमापवस्य महात्मनः ।
कार्त्तवीर्येण विक्रम्य तन्नः प्रब्रूहि पृच्छताम्
2.70.2
रक्षिता सतु राजर्षिः प्रजानामिति नः श्रुतम् ।
कथं सरक्षिता भूत्वा नाशयेत तपोवनम्
मूल पाठ: Brahmāṇḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0