बोधिचित्तविवरण · भाग 11
...
फेनपिण्डोपमं रूपं वेदना बुद्बुदोपमा ।
मरीचिसदृशी संज्ञा संस्काराः कदलीनिभाः ॥ नग्भ्च्_12
मायोपमं च विज्ञानं ... नग्भ्च्_13
...
परिव्राट्कामुकशुनाम् एकस्यां प्रमदातनौ ।
कुणपः कामिनी भक्ष्य इति तिस्रो विकल्पनाः ॥ नग्भ्च्_20
...
आत्मग्रहनिवृत्त्यर्थं स्कन्धधात्वादिदेशेना ।
सापि ध्वस्ता महाभागैश् चित्तमात्रव्यवस्थया ॥ नग्भ्च्_25
...
चित्तमात्रम् इदं सर्वम् इति या देशना मुनेः ।
उत्त्रासपरिहारार्थं बालानां सा न ऽतत्त्वतः ॥ नग्भ्च्_27
...
न बोध्यबोधकाकारं चित्तं दृष्टं तथागतैः ।
यत्र बोद्धा च बोध्यं च तत्र बोधिर् न विद्यते ॥ नग्भ्च्_45
अलक्षणम् अनुत्पादम् असंस्थितम् अवाङ्मयम् ।
आकाशं बोधिचित्तं च बोधिर् अद्वयलक्षणा ॥ नग्भ्च्_46
...
शून्यतासिंहनादेन त्रसिताः सर्ववादिनः । नग्भ्च्_52
...
गुडे मधुरता चाग्नेर् उष्णत्वं प्रकृतिर् यथा ।
शून्यता सर्वधर्माणां तथा प्रकृतिर् इष्यते ॥ नग्भ्च्_57
...
देशना लोकनाथानां सत्त्वाशयवशानुगाः ।
भिद्यन्ते बहुधा लोक उपायैर् बहुभिः पुनः ॥ नग्भ्च्_98
गम्भीरोत्तानभेदेन क्व चिद् वोभयलक्षणा ।
बिन्नापि देशनाभिन्ना शून्यताद्वयलक्षना ॥ नग्भ्च्_99
%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%
चोप्य्रिघ्त् (च्) 2003 ब्य् छ्र्. लिन्द्त्नेर् - देन्मर्क्
%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%
मूल पाठ: Bodhicittavivaraṇa-fragments · Data entry Richard Mahoney · GRETIL (Göttingen) · CC BY-NC-SA 4.0