भिक्षुणीकर्मवाचना · भाग 14
महाप्रजापती गौतमी भगवन्तम् इदम् अवोचत् । सचेद् भदन्तास्त्य् अवकाशो ( भीकवा 3अ1 ) मातृग्रामस्य चतुर्थस्य श्रामण्यफलस्याधिगमाय लभते मातृग्रामः स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुणीभावञ् चरेत् मातृग्रामो भगवतो ऽन्तिके ब्रह् म चर्यम् इत्य्
एवम् उक्ते भगवान् महाप्रजापतीं गौतमीम् इदम् अवोचत् । एवम् एव त्वं गौतमि मुण्डा संघाटीप्रावृता यावज्जीवं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह् मच र्यञ् चर तत् तव भविष्यति दीर्घरात्रम् अर्थाय हिताय सुखायेति
द्विर् अपि त्रिर् अपि महाप्रजापती गौतमी भगवन्तम् इदम् अवोचत् । सचेद् भदन्तास्त्य् अवका शो मातृग्रामस्य चतुर्थस्य श्रामण्यफलस्याधिगमाय लभते मातृग्रामः स्वाख्याते धर्म् अ विनये प्रव्रज्याम् उपसंपदं भिक्षुणीभावञ् चरेन् मातृग्रामो भगवतो ऽन्तिके ब्रह्मचर्यम् इति
द्विर् अपि त्रिर् अपि भगवान् महाप्रजापतीं गौतमीम् इदम् अवोचत् । एवम् एव त्वं गौतमि मुण्डा संघाटीप्रावृता यावज्जीवं केवलं परिपूर्णं परि श् उद्धं ( भीकवा 3ब्1 ) पर्यवदातं ब्रह्मचर्यञ् चर तत् तव भविष्यति दीर्घरात्रम् अर्थाय हिताय सुखायेत्य्
अथ महाप्रजापती गौतमी यावत् त्रिर् अपि भगवता प्रत्याख्याता भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्ता । अथ महाप्रजापती गौतमी बहिर् द्वारकोष्ठकस्यैकान्ते स्थिता प्रारोदीद् अश्रूणि प्रवर्तयमाना
अद्राक्षीद् आयुष्मान् आनन्दो महाप्रज् आ पतीं गौतमीं बहिर् द्वारकोष्ठकस्यैकान्ते स्थितां प्ररुदन्तीम् अश्रूणि प्रवर्तयमानां दृष्ट्वा च पुनर् महाप्रजापतीं गौतमीम् इदम् अवोचत् । कस्मात् त्वं गौतमि बहिर् द्वारकोष्ठक् अ स्यैकान्ते स्थिता प्ररोदिषि अश्रूणि प्रवर्तयमाना
सा एवम् आह । तथा हि भदन्तानन्द न लभते मातृग्रामः स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुणीभ् आ वं
तेन हि त्वं गौ तमि आगमयस्व यावद् अहं भगवन्तम् अवलोकयामि ।
अथायुष्मान् आनन्दो येन भगवांस् तेनोपसंक्रान्त उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते ऽस्थाद् एकान्तस्थित आ युष्मान् ( भीकवा 4अ1 ) आनन्दो भगवन्तम् इदम् अवोचत् । सचेद् भदन्तास्त्य् अवकाशो मातृग्रामस्य चतुर्थस्य श्रामण् य् अफलस्याधिगमाय लभेत मातृग्रामः स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भि क्षुणीभावञ् चरेन् मातृग्रामो भगवतो ऽन्तिके ब्रह्मचर्यम्
मा ते आनन्द मातृग्रामस्य स्वाख्याते धर्मविनये प्रव्रज्या रोचतां मा उपसंपन् मा भिक्षुणीभावः । तत् क स्माद् द् हेतो र् यस्मिन्न् आनन्द धर्मविनये मातृग्रामः प्रव्रजति नासौ धर्मविनयश् चिरस्थितिको भवति ।
तद्यथा आनन्द कुलं बहुस्त्रीकम् अल्पपुरुषं स्वाधर्षकं भवति । सुप्रधर्षकं यद् उत चौराणां बन्धुस्तेयानाञ् च एवम् एवानन्द यस्मिन् धर्मविनये मातृग्रामः प्रव्रजति नासौ धर्मविनयश् चिरस्थितिको भवति ।
तद्यथा आनन्द कार्षकस्य गृहपतेः संपन्ने शाल् इ क्षेत्रे अशनिर् निपत् एद् द्विर्वक्रा यावद् एतस्यैव शालेर् उत्सादाय विनाशायानयेन व्यसनाय । एवम् एवानन्द यस्मिन् धर्मवि न ये मातृग्रामः प्रव्रजति नासौ धर्मविनयश् चिरस्थितिको ( भीकवा 4ब्1 ) भवति ।
तद्यथा आनन्द कार्षकस्य गृहपतेः संपन्ने इक्षुक्षेत्रे मञ्जिष्ठिका नाम रोगजातिर् निपतेत् यावद् एतस्यैवेक्षोर् उत्सादाय विनाशायानयेन व्यसनाय एवम् एवानन्द यस्मिन् धर्मविनये मातृग्रामः प्रव्रजति नासौ धर्मविनयश् चिरस्थितिको भवति ।
अपि त्व् अहम् आनन्द मातृग्रामस्याष्टौ गुरुधर्मान् प्रज्ञपयाम्य् आवरणायानतिक्रमणाय यत्र मातृग्रामेण यावज्जीवं शिक्षा करणीया ।
तद्यथा आनन्द कार्षको गृहपतिर् वर्षात्यये शरत्कालसमये नदीमुखे वा कुल्यामुखे वा सेतुं बध्नीयात् । यावद् एवोदकस्यावरणायानतिक्रमणाय एवम् एवानन्द मातृग्रामस्याष्टौ गुरुधर्मान् प्रज्ञपयाम्य् आवरणायानतिक्रमणाय यत्र मातृग्रामेण यावज्जीवं शिक्षा करणीया ॥
कत मान् अ ष्टौ । भिक्षुभ्यः स् अका श् आद् आनन्द मातृग्रामेण प्रव्रज्योपसंपद् भिक्षुणीभावः प्रतिकांक्षितव्य इमम् अहम् आनन्द मातृग्रामस्य प्रथमं गुरुधर्मं प्रज्ञपयाम्य् आवरणायानतिक्रम ण् आय ( भीकवा 5अ1 ) यत्र मातृग्रामेण यावज्जीवं शिक्षा करणीय ।
भिक्षुण्या आनन्द भिक्षोः स् अका श् आद् अन्वर्धमासम् अववादानुशासनी पर्येषितव्या इमम् अहम् आनन्द मातृग्रामस्य द्वितीयं गुरुधर्मं प्रज्ञपयाम्य् आवरणायानतिक्रमणाय यत्र मा तृ ग्रामेण यावज्जीवं शिक्षा करणीया ।
न भिक्षुण्या आनन्द अ भिक्षुके आवासे वर्षा उपगन्तव्या । इ म् अम् अहम् आनन्द मातृग्रामस्य तृतीयं गुरुधर्मं प्रज्ञपयाम्य् आवरणायानतिक्रमणाय यत्र मातृग्रामेण यावज्जीवं शिक्षा करणीया ।
वर्षोषितया आनन्द भिक्षुण्या उभयसंघस् त्रिभिः स्थानैः प्र वारयितव्यो दृष्टेन श्रुतेन परिशङ्कया वा इमम् अहम् आनन्द मातृग्रामस्य चतुर्थं गुरुधर्मं प्रज्ञपयाम्य् आवरणायानतिक्रमणाय । यत्र मातृग्रामेण यावज्जीवं शिक्षा करणीया ।
न भिक्षुण्या आनन्द भिक्षुश् चोदयितव्यः स्मारयितव्यः शीलविप त् त्या दृष्टिविप त् त्या आचारविप त् त्या आजीवविप त् त्या आवृतम् आनन्द भिक्षुण्या भिक्षुं चोदय् इ तुं ( भीकवा 5ब्1 ) स्मारयितुं शीलविपत्या दृष्टिविपत्या आचारविपत्या आजीवविपत्या अनावृतं भिक्षोर् भिक्षुणीञ् चोदयितुं स्मारयितुं शीलविप त् त्या दृष्टिविप त् त्या आचारविप त् त्या आजीवविप त् त्या इमम् अहम् आनन्द मातृग्रामस्य पञ्चमं गुरुधर्मं प्रज्ञपयाम्य् आवरणायानतिक्रमणाय यत्र मातृग्रामेण यावज्जीवं शिक्षा करणीया ।
न भिक्षुण्या आनन्द भिक्षुर् आक्रोष्टव्यो न रोषयितव्यः । न परिभाषयितव्यः । आवृतम् आनन्द भिक्षुण्या भिक्षु म् आक्रोष्टुं रोषयितुं परिभाषयितुं इमम् अहम् आनन्द मातृग्रामस्य षष्टं गुरुधर्मं प्रज्ञपयाम्य् आवरणायानतिक्रमणाय यत्र मातृग्रामेण यावज्जीवं शिक्षा करणीया ।
गुरुधर्माध्यापन्नया आनन्द भिक्षुण्या उभयसंघे अन्वर्धमासं मानाप्यञ् चरितव्यम् इमम् अहम् आनन्द मातृग्रामस्य सप्तमं गुरु ध र्मं प्रज्ञपयाम्य् आवरणायानतिक्रमणाय यत्रानन्द मातृग्रामेण यावज्जीवं शिक्षा ( भीकवा 6अ1 ) करणीया ।
वर्षशतोपसंपन्नया आनन्द भिक्षुण्या तद् अहर् उपसंपन्नस्य भिक्षोर् अभिवादनवन्दनप्रत्युत्थानाञ्जलिसामीचीकर्म कर्तव्यम् इमम् अहम् आनन्द मातृग्रामस्य अष्टमं गुरुधर्मं प्रज्ञपयाम्य् आवरणायानतिक्रमणाय यत्र मातृग्रामेण यावज्जीवं शिक्षा करणीया ।
सचेद् आनन्द महाप्रजापती गौतमी इमान् अष्टौ गुरुधर्मान् समादाय वर्तिष्यते सैव तस्याः प्रव्रज्या सैवोपसंपत् स एव भिक्षुणीभावः ।
अथायुष्मान् आनन्दो भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तो अथायुष्मान् आनन्दो येन महाप्रजापती गौतमी तेनोपसंक्रान्त उपसंक्रम्य महाप्रजापतीं गौतमीम् इदम् अवोचत् ।
लब्धवान् गौतमि मातृग्रामः स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुणीभावम् अपि ( भीकवा 6ब्1 ) तु गौतमि भगवता मातृग्रामस्याष्टौ गुरुधर्माः प्रज्ञप्ताः । आवरण् आ यानतिक्रमणाय यत्र मातृग्रामेण यावज्जीवं शिक्षा करणीया
देशयामो ज्ञास्यसि
भाशतां भदन्तानन्द श्रोष्यामि ।
भगवान् गौतम्य् एवम् आह भिक्षुभ्यः स् अका श् आद् आनन्द मातृग्रामेण प्रव्रज्या उपसंपद् भिक्षुणीभावः प्रतिकांक्षितव्यम् इत्य् अयं गौतमि भगवता मातृग्रामस्य प्रथमो गुरुधर्मः प्रज्ञप्तः । आवरणायानतिक्रमणाय यत्र मातृग्रामेण यावज्जीवं शिक्षा करणीया ।
भगवान् गौतम्य् एवम् आह । भिक्षुभ्यः स् अका श् आद् आनन्द भिक्षुण्या अन्वर्धमासम् अववादानुशासनी पर्येषितव्या इत्य् अयं गौतमि भगवता मातृग्रामस्य द्वितीयो गुरुधर्मः प्रज्ञप्तः । आवरणायानतिक्रमणाय यत्र मातृग्रामेण यावज्जीवं शिक्षा करणीया ।
भगवान् गौतम्य् एवम् आह । न भिक्षुण्या आनन्द अभिक्षुके आवासे वर्षा उपगन्तव्या इत्य् अयं गौतमि भगवता ( भीकवा 7अ1 ) मातृग्रामस्य तृतीयो गुरुधर्मः प्रज्ञप्तः । आवरणायानतिक्रमणाय यत्र मातृग्रामेण यावज्जीवं शिक्षा करणीया ।
भगवान् गौतम्य् एवम् आह । वर्षोषितया आनन्द भिक्षुण्या उभयसंघस् त्रिभिः स्थानैः प्रवारयितव्यः । दृष्टेन श्रुतेन परिशङ्कयेत्य् अयं गौतमि भगवता मातृग्रामस्य चतुर्थो गुरुधर्मः प्रज्ञप्त आवरणायानतिक्रमणाय यत्र मातृग्रामेण यावज्जीवं शिक्षा करणीया ।
भगवान् गौतम्य् एवम् आह । न भिक्षुण्या आनन्द भिक्षुश् चोदयितव्यः स्मारयितव्यः शीलविपत्त्या दृष्टिविपत्त्या आचारविपत्त्या आजीवविपत्त्या । आवृतम् आनन्द भिक्षुण्या भिक्षुं चोदयितुं स्मारयितुं शीलविप त् त्या दृष्टिविप त् त्या आचारविपत्त्या आजीवविपत्त्या अनावृतम् भिक्षोर् भिक्षुणीं चोदयितुं स्मारयितुं शीलविपत्त्या दृष्टिविपत्त्या आचारविपत्त्या आजीवविपत्त्या इत्य् अयं गौतमि भगवता मातृग्रामस्य पञ्चमो गुरुधर्मः ( भीकवा 7ब्1 ) प्रज्ञप्त आवरणायानतिक्रमणाय यत्र मातृग्रामेण यावज्जीवं शिक्षा करणीया ।
भगवान् गौतम्य् एवम् आह । न भिक्षुण्या आनन्द भिक्षुर् आक्रोष्टव्यो न रोषयितव्यो न परिभाषयितव्यः । आवृतम् आनन्द भिक्षुण्या भिक्षु म् आक्रोष्टुं रोषयितुं परिभाषयितुं । इत्य् अयं गौतमि भगवता मातृग्रामस्य षष्टो गुरुधर्मः प्रज्ञप्तः । आवरणायानतिक्रमणाय यत्र मातृग्रामेण यावज्जीवं शिक्षा करणीया ।
भगवान् गौतम्य् एवम् आह । गुरुधर्म् आध् यापन्नया आनन्द भिक्षुण्या उभयसंघे अन्वर्धमासं मानाप्यं चरितव्यम् इत्य् अयं गौतमि भगवता मातृग्रामस्य सप्तमो गुरुधर्मः प्रज्ञप्त आवरणायानतिक्रमणाय यत्र मातृग्रामेण यावज्जीवं शिक्षा करणीया ।
भगवान् गौतम्य् एवम् आह । वर्षशतोपसंपन्नया आनन्द भिक्षुण्या तद् अहर् उपसंपन्नस्य भिक्षोर् अभिवादनवन्दनप्रत्युत्था ना ञ्जलिसामीचीकर्म कर्तव्यम् इत्य् अयं गौतमि भ॥।
[लचुन]
( भीकवा 9अ1 ) गौ तमीप्रमुखानां पञ्चानां शाक्यायनिकाशतानां गुरुधर्माभ्युपगमेन प्रव्रज्या उपसंपद् भिक्षुणीभाव अन्यासां स्त्रीणाम् आनुपूर्व्या । यस्याः कस्याश् चि द् भ् इ क्षुण्याः + + + + + णी स्त्री उपसंक्रामति सा तया आन्तरायिकान् धर्मान् पृष्ट्वा उद्ग्रहीतव्या उद्गृह्य त्रीणि शरणगमनानि दातव्यानि । पञ्च उपासिकाशि क्षापदानि च । श रणगमनानि कतमानि बुद्धो धर्मः संघश् च । पञ्च शिक्षापदानि कतमानि । प्राणातिपातात् प्रतिविरतिर् अदत्तादानात् काममिथ्य् आचारान् मृषावादात् सुरामै रेयमद्यप्रमादस्थानात् प्रतिविरतिः ।
एवञ् च पुनः शरणगमनशिक्षापदानि दातव्यानि । त्रिमण्डलं कृत्वा पूर्वं शास्तु ः प्रणामं कारयि त्वा अञ्जलिं कारयित्वा श रणगमनशिक्षापदानि ददाति तस्याः प्रणामं कारयित्वा अञ्जलिं कारयितव्या ततस् तया एवं वक्तव्यं ।
समन्वाहर आर्यिके अहम् एवन्नमिक् आ इमं दिवसम् उपादाय या वज्जीवं ( भीकवा 9ब्1 ) बुद्धं भगवन्तं शरणं गच्छामि द्विपदानाम् अग्र्यं । धर्म ं शरणं गच्छामि विरागाणाम् अग्र्यं । संघं श् अरणं गच्छामि गणानाम् अग्र्यं । एवं द्विर् अपि त्रिर् अ प् इ
ततः पञ्च शिक्षापदानि दा तव्यानि । समन्वाहर आर्यिके यथा ते आर्या अर्हन्तो यावज्जीवं प्राणातिपातं प्रहाय प्राणातिपातात् प्रतिविरता एवम् एवाहं एवन्न् आमिका इमं दिवसम् उपादा य यावज्जीवं प्राणातिपातं प्रहाय प्राणातिपातात् प्रतिविरमाम्य् अनेनाहं प्रथमेनाङ्गेन तेषाम् आर्याणाम् अर्हतां शिक्षायाम् अ नुशिक्षे अनुविधीये अनु करोमि ।
पुनर् अपरं यथा ते आर्या अर्हन्तो यावज्जीवम् अदत्तादानं काममिथ्याचारं मृषावादं सुरामैरेयमद्यप्रमादस्थानञ् च प्र हाय सुरामैरेयमद्यप्र मादस्थानात् प्रतिविरता एवम् एवाहम् एवन्नामिका इमं दि व सम् उपादाय यावज्जीवम् अदत्तादानं काममिथ्याचारं मृषावादं सुरामैरेयमद्यप्रम् आदस्थानञ् च प्रहाय सु रामैरेयमद्यप्रमादस्थानात् ( भीकवा 10अ1 ) प्रतिविरमाम्य् अनेनाहं पञ्चमेनाङ्गेन तेषाम् आर्याणाम् अर्हतां शिक्षायाम् अनुशिक्षे अनुविधीये अनुकरोमि उपासिकाञ् च माम् आर्यिका धारयतु । इति वक्तव्यं । एवं द्विर् अपि त्रिर् अपि ॥
त्रिशरणगमनात् पञ्चशिक्षापदधारिण्या भिक्षुण्या वक्तव्यम् औपयिकम् इति । तया वक्तव्यं साध्व् इति ॥ ॥
ततः पश्चाद् भिक्षुणी अध्येष्टव्या या संघमध्ये आरोचयति । याधीष्टा भवति तयासौ भिक्षुणी प्रष्टव्या । पृष्टा ते इयम् आन्तरायिकान् धर्मान् इति । अपृष्ट्वा आरोचयति सातिसारा भवति ।
ततस् तया भिक्षुणीसंघे सन्निषण्णे सन्निपतिते अनुपरिगणिकया वा प्रव्रज्यापेक्षां वृद्धान्ते सामीचीं कारयित्वा उत्कुटुकं निषाद्याञ्जलिं प्रगृह्य गणाभिमुखं स्थापयित्वा इदं स्याद् आरोचयितव्यं ।
शृणोत्व् आर्यिकासंघः । इयम् एवंनामिका एवन्नामिकाया प्रव्रज्यापेक्षा गृह् इ णी अवदातवसना अनवतारितकेशा आकांक्षते ( भीकवा 10ब्1 ) स्वाख्याते धर्मविनये प्रव्रज्यां सेयम् एवंनामिका केशान् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनागारिकां प्रव्रज्यां प्रव्रजिष्यत्य् एवंनामिकया उपाध्यायिकया किं प्रव्रजत्व् इति ।
सर्वाभिर् वक्तव्यं सचेत् परिशुद्धा प्रव्रजतु । सचेद् वदन्तीत्य् एवं कुशलं नो चेद् वदन्ति सातिसारा भवन्ति ।
ततः पश्चाद् उपाध्यायिका याचितव्या एवं पुनर् याचितव्या । सामीचीं कारयित्वा पुरत उत्कुटुकेन निषाद्याञ्जलिं प्रगृह्य इदं स्याद् वचनीयं । समन्वाहर आचार्यिके ऽहम् एवन्नामिका आचार्यिकाम् उपाध्यायिकां याचे आचार्यिका मे उपाध्यायिका भवतु । आचार्यिकया उपाध्यायिकया प्रव्रजिष्यामि । एवं द्विर् अप्य् एवं त्रिर् अपि ॥ ॥
तत उपाध्यायिकया केशावतारिका भिक्षुणी अध्येष्टव्या या केशान् अवतारयति । तया केशान् अवतार य न्त्या प्रष्टव्या भगिनि किं केशा अवतार्यन्ताम् इति । यदि कथयत्य् अवतार्यन्ताम् इत्य् अवतारयि त व्याः ( भीकवा 11अ1 ) । अथ क थ यति नेति वक्तव्या अत एव गच्छेति ।
केशावतारिकाया अहं भिक्षवो भिक्षुण्या आसमुदाचारिकान् धर्मान् प्रज्ञपयामि केशावतारिकया भिक्षुण्या यदि शीतकालो भवति उष्णोदकेन स्नापयितव्या । अथोष्णकालो भवति शीतोदकेन स्नापयितव्या । केशावतारिका भिक्षुणी यथाप्रज्ञप्तान् आसमुदाचारिकान् धर्मान् असमादाय वर्तते सातिसारा भवति ।
ततो मुहूर्तं गात्राण्य् आवापयित्वा पश्चात् स्वयम् एवोपाध्यायिकया काषायाणि वस्त्राणि दातव्यानि । तयापि पादयोर् निपत्य प्रतिग्रहीतव्यानि । निवासनं निवासयितव्या । निवासयन्त्या व्यञ्जनं प्रत्यवेक्षितव्यं । मा अव्यञ्जना उभयव्यञ्जना संभिन्नव्यञ्जना चेति ।
ताश् च विनग्नीकृत्य प्रत्यवेक्षन्ते ता ह्रियापयन्ति । भगवान् आह । न विनग्नीकृत्य प्रत्यवेक्षितव्यं । अपि तु प्रावरयन्त्या ऽप्रतिसंविदितं प्रत्यवेक्षितव्यम् इति ।
तद् एवं यदि परिशुध्यति तदा ( भीकवा 11ब्1 ) काषायाणि वस्त्राणि दत्वा उपाध्यायिकया शरणगमनपूर्वकं प्रव्रज्या देया । तया पादयोर् निपत्याञ्जलिं प्रगृह्य वक्तव्यं ।
समन्वाहर उपाध्यायिके ऽहम् एवन्नामिका इमं दिवसम् उपादाय यावज्जीवं बुद्धं भगवन्तं शरणं गच्छामि द्विपदानाम् अग्र्यं । धर्मं शरणं गच्छामि विरागाणाम् श्रेष्ठं । संघं शरणं गच्छामि गणानां प्रवरं । तं भग व न्तं शाक्यमुनिं शाक्यसिंहं शाक्याधिराजं तथागतम् अर्हन्तं सम्यक्संबुद्धं प्रव्रजितम् अनुप्रव्रजामि । गृहिलिङ्गं परित्यजामि । प्रव्रज्यालिङ्गं समाददे । समादाय वर्तिष्ये । अर्थहेतोर् नाम गृह्णामि एवन्नामिकया उपाध्यायिकया । एवं द्विर् अप्य् एवं त्रिर् अपि ॥ ॥
तत उपाध्यायिकया भिक्षुणी अध्येष्टव्या । यास्याः श्रामणेरिकाशिक्षापदानि ददाति । तया प्रष्टव्यं । पृष्टा ते आन्तरायिकान् धर्मान् इति । अपृष्ट्वा प्रयच्छति सातिसारा भवति । या अधीष्टा तया शास्तुः प्र णाम ं कारयित्वा आ॥।
[लचुन]
( भीकवा 15अ1 ) + + ततश् चीवराण्य् अधिष्ठातव्यानि । समन्वाहर उपाध्यायिके अहम् एवन्नामिका इदं चीवरं संघाटीम् अधितिष्ठामि कृतपरिनिष्ठितञ् चीवरं कल्पिकं पारि भो ग् इ कं । एवं द्विर् अपि त्रिर् अपि ॥ एवम् उत्तरासङ्गम् अन्तर्वासः कुसूलकं संकक्षिका चाधिष्ठातव्या ।
ततः पात्रं भिक्षुणीसंघस्योपदर्शयितव्यं । समन्वाहर आ यु ष्मति इदम् आयुष्मत्या अमुकायाः पात्रं मा ऊनं मा अधिकं मा पाण्डु चेति । शोभनञ् चैव सर्वाभिर् भिक्षुणीभिर् वक्तव्यं सुपात्रम् इति ।
ततः पात्रम् अधिष्ठातव्यं वामे पाणौ पात्रं प्रतिष्ठाप्य दक्षिणेन पाणिना प्रतिच्छाद्य वक्तव्यं । समन्वाहर उपाध्यायिके अहम् एवंनामिका इदं पात्रं ऋषिभाजनं भिक्षाभाजनम् अधितिष्ठामि भोजने कल्पिकं पारिभोगिकं । एवं द्विर् अपि त्रि र् अ पि ॥
ततः पश्चाच् छ्रमण् ओ पविचारं विजहय्य दर्शनोपविचारे कायम् अवनाम्याञ्जलिं कारयित्वा गणाभिमुखी ( भीकवा 15ब्1 ) स्था पयितव्या । ततः कर्मकारिकया भिक्षुण्यैवं वक्तव्यं । काधीष्टा एवन्नामिकाया रहस्यनुशासिकेति । या अधीष्टा तया वक्तव्यम् अहम् एवन्नामिकेति ।
ततः कर्मका रि कया भिक्षुण्या पूर्वन् तावद् उत्साहयितव्या । उत्सहसे त्वम् एवन्नामिके एवन्नामिकां रहस्य् अनुशासितुम् एवन्नामिकया उपाध्यायिकयेति । सचेद् उत्सहते तया व क्त व्यं । उत्सहे ।
ततः कर्मकारिकया भिक्षुण्या मुक्तिका ज्ञप्तिः कर्तव्या ॥ ॥
शृणोत्व् आर्यिकासंघ इयम् एवन्नामिका एवन्नामिकया उपाध्यायिकया एवन्नामिका या रहो ऽनुशासिका ऽधीष्टा । सेयम् एवन्नामिका भिक्षुणी उत्सहते एवन्नामिकां रहस्य् अनुशासितुम् एवन्नामिकया उपाध्यायिकया सचेद् आर्यिकासंघस्य प्राप्तकालं क्ष मते ऽनु जानीयाद् आर्यिकासंघ एवन्नामिकां भिक्षुणीं रहोऽनुशासिकां संमन्येत । सेयम् एवन्नामिका भिक्षुणी रहोनुशासिका एवन्नामिकां रहस्य् अनुशासिष्यति एवंनामिकया ( भीकवा 16अ1 ) उपाध्यायिकयेत्य् एषा ज्ञप्तिः ॥
ततो रहोनुशासिकया भिक्षुण्या एकान्ते प्रक्रम्य पुरस्ताद् उत्कुटुकं निषादयित्वा अञ्जलिं कारयित्वा वक्तव्या । शृणु त्वम् एवन्नामिके अयं ते सत्यकालो यं ते भूतकालः । यत् ते ऽहं किञ् चित् पृच्छामि । सर्वन् तत् त्वया विशारदया भूत्वा भूतञ् च भूततो वक्तव्यं अभूतञ् चाभूततो निर्वेठयितव्यं ।
स्त्री त्वं स्त्री गृहोषिता द्वादशवर्षा कुमारिका वा परिपूर्णविंशतिवर्षा परिपूर्णं ते पञ्चचीवरं पात्रं च । परिपूर्णं । जीवतस् ते मातापितरौ स्वामि वा जीवति अनुज्ञातासि मातापितृभ्यां स्वामिना वा अनुज्ञाता । मासि दासी । तया वक्तव्यं न हीति । मा आहृतिका । मा विक्रीतिका । मा प्राप्तिका । मा वक्तव्यिका । मा निर्मितिका । मा राजभटी । मा राजकिल्विषकारिणी मा राजापथ्यकर्मकारिणी । मा त्वया राजापथ्यं कर्म कृतं वा कारितं वा । मा चण्डा मा शोकहता मा गुर्विणी मा अव्यंञ्जना मा उभयव्यञ्जना । मा संभिन्नव्यञ्जना मा सदाप्रस्रुतलोहिनी ( भीकवा 16ब्1 ) । मा अलोहिनी । मा नैमित्तिकी । मा भिक्षुदूषिणी । मा मातृघातिका । मा पितृघातिका । मार्हद्घातिका । मा तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादिका मा तीर्थिका मा तीर्थिकावक्रान्तिका । मा चौरी ॥ मा ध्वजबद्धिका । मा स्तेयसंवासिका । मा नानासंवासिका । मा असंवासिका ।
कच्चित् त्वं पूर्वं प्रव्रजिता । यदि वदति प्रव्रजिता वक्तव्या अत एव गच्छेति यदि कथयति न प्रव्रजितेति । वक्तव्या कच्चित् त्वम् एतर्हि प्रव्रजिता कच्चित् त्वया सम्यग् ब्रह्मचर्यञ् चरितं । चरितं । याचिता त्वया भिक्षुणीसंघात् द्वे वर्षे षट्सु धर्मेषु षट्स्व् अनुधर्मेषु शिक्षा । याचिता । शिक्षिता त्व ं द्वे वर्षे षट्सु धर्मेषु षट्स्व् अनुधर्मेषु शिक्षायां शिक्षिता । मा त्वया कस्य चित् किञ् चिद् देयं अल्पं वा प्रभूतं वा । किन्नामिका त्वं एवंनामिकाहं किंनामिका ते उपाध्यायिका । अर्थहेतोर् नाम गृह्णामि एवन्नामिका मे उपाध्यायिका ।
शृणु त्वम् एवन्नामिके भवन्ति खलु स्त्रीणाम् इम एवंरूपाः ( भीकवा 17अ1 ) काये कायिका आबाधा स् तद्यथा कुष्ठं गण्डं किटिभं किलासो दद्रुः कच्छूः कण्डूः रजतं विचर्च्चिका हिक्का च्छर्द्दिः । अर्शान्सि । ज्वरः क्षयः क्लमः भ्रमः श्वासः । काशः शोषो ऽपस्मारः । आटक्करः । पाण्डुरोगः । श्लीपदः । रक्तपित्तं । भगन्दरः अङ्गदाहः । पार्श्वदाहः । अस्थिभेदः । एकाहिकः । द्वैतीयकः । त्रैतीयकः । चातुर्थकः । सांनिपातिकः । सततज्वरः । मा ते एवंरूपाः काये कायिका आबाधाः संविद्यन्ते ऽन्ये वा ॥
सचेत् परिशुद्धा भवति रहोनुशासिकया वक्तव्या । यद् एव त्वं मया पृष्टा एतद् एव ते संघमध्ये वक्तव्यं तिष्ठ मा अशब्दिता आगमिष्यसीति ।
ततो ऽन्तर् मार्गे स्थित्वा रहोनुशासिकया वक्तव्यं । शृणोत्व् आर्यिकासंघः समनुशिष्टा मया एवन्नामिका रहस्य् आन्तरायिकान् धर्मान् सा परिशुद्धम् आन्तरायिकैर् धर्मैर् आत्मानं वदति किम् आगच्छत्व् इति ।
सर्वभिक्षुणीभिर् वक्तव्यं सचेत् परिशुद्धा भवत्य् आगच्छत्व् इति । सचेद् वदन्तीत्य् एवं कुशलं नो चेद् वदन्ति सातिसारा भवन्ति ।
ततः कर्मकारिकया ( भीकवा 17ब्1 ) भिक्षुण्या पुरस्तान् निषाद् अ यित्वा ब्रह्मचर्योपस्थानसंवृतिं याचितव्या । शृणोत्व् आर्यिकासंघः । अहम् एवन्नामिका एवंनामिकाया उपाध्यायिकाया उप्संपत्प्रेक्षा साहम् एवन्नामिका । आर्यिकासंघात् । ब्रह्मचर्योपस्थानसंवृतिं याचे । अर्थहेतोर् नाम गृह्णाम्य् एवन्नामिकया उपाध्यायिकया ददात्व् आर्यिकासंघो ममैवंनामिकाया ब्रह्मचर्योपस्थानसंवृतिं । अनुकम्पको ऽनुकम्पाम् उपादाय एवं द्विर् अपि त्रिर् अपि ॥ ॥
ततः कर्मकारिकया भिक्षुण्या ज्ञप्तिं कृत्वा कर्म कर्तव्यं । शृणोत्व् आर्यिकासंघ इयम् एवन्नामिका एवंनामिकाया उपाध्यायिकाया उपसंपत्प्रेक्षिणी सेयम् एवंनामिका आर्यिकासंघात् ब्रह्मचर्योपस्थानसंवृतिं याचते एवन्नामिकया उपाध्यायिकया सचेद् आर्यिकासंघस्य प्राप्तकालं क्षमते ऽनुजानीयाद् आर्यिकासंघो यद् वयम् एनां संघमध्ये आन्तरायिकान् धर्मान् पृच्छेम इत्य् एषा ज्ञप्तिः ॥
शृणु त्वम् एवन्नामिके अयन् ते सत्यकालो यं भूतकालो यत् ते ऽहं किञ् चित् ( भीकवा 18अ1 ) पृच्छामि सर्वन् तत् त्वया विशारद् अय् आ भूत्वा भूतञ् च भूततो वक्तव्यम् अभूतञ् चाभूततो निर्वेठयितव्यं ।
स्त्री त्वं स्त्री पूर्व व द् यावत् सर्वम् एत द् वक्तव्यं । मा ते एवंरूपाः काये कायिका आबाधाः संविद्यन्ते अन्ये वा तया वक्तव्यं । नेति ।
ततो ज्ञप्तिः कर्तव्या । शृणोत्व् आर्यिकासंघ इयम् एवंनामिका एवन्नामिकाया उपाध्यायिकाया उपसंपत्प्रेक्षिणी गृहोषिता द्वादशवर्षा कुमारिका वा परिपूर्णविंशतिवर्षा परिपूर्णम् अस्याः पञ्चचीवरं पात्रञ् च परिशुद्धम् आन्तरायिकैर् धर्मैर् आत्मानं वदति सेयम् एवंनामिका आर्यिकासंघा द् ब्र ह्मचर्योपस्थान सं वृतिं याचते । एवन्नामिकया उपाध्यायिकया सचेद् आर्यिकासंघस्य प्राप्तकालं क्षमते ऽनुजानीयाद् आर्यिकासंघो यद् आर्यिकासंघ एवंनामिका या ब्रह्मचर्योपस्थानसंवृतिं दद्याद् एवन्नामिकया उपाध्यायिकयेत्य् एषा ज्ञप्तिः ।
एवञ् च कर्म कर्तव्यं । शृणोत्व् आर्यिकासंघ इयम् एवन्नामिका एवन्नामिका या ( भीकवा 18ब्1 ) उ पाध्यायिकाया उपसंपत्प्रेक्षिणी गृहोषिता द्वादशवर्षा कुमारिका वा परिपूर्णविंशतिवर्षा परिपूर्णम् अस्याः पञ्चचीवरं पात्रञ् च परिशुद्धम् आन्तरायिकैर् धर्मै र् आ त्मानं वदति । सेयम् एवन्नामिका आर्यिकासंघाद् उपसंपदं याचते एवन्नामिकया उपाध्यायिकया तद् आर्यिकासंघ एवन्नामिकाया ब्रह्मचर्योपस्थानसंवृतिं दद्या द् ए वन्नामिकया उपाध्यायिकया यासाम् आर्यिकाणां क्षमते ए व न्नामिकाया ब्रह्मचर्योपस्थानसंवृतिं दातुं एवन्नामिकया उपाध्यायिकया तास् तूष्णी यासान् न क्षमते ता भाषन्ताम् । इयं प्रथमा कर्मवाचना । एवं द्वित् ई या तृतीया कर्मवाचना वक्तव्या ।
दत्ता आर्यिकासंघेन एवन्नामिकाया ब्रह्मचर्योपस्थानसंवृत्तिर् एवन्नामिकया उपाध्यायिकया क्षान्तम् अनुज्ञातं संघेन यस्मात् तूष्णीम् एवम् एतद् धारयामि ।
ततः पश्चात् सर्वभिक्षुसंघे सन्निषण्णे सन्निपतिते अपश्चिमके वा भिक्षूणां दशवर्गे मण्डलके सर्वभिक्षुणीसंघे सन्निषण्णे ( भीकवा 19अ1 ) सन्निपतिते अपश्चिमके वा भिक्षुणीनां द्वादशवर्गे मण्डलके । कर्मकारकस्य भिक्षोः पुरतो विण्डके मसूरिकायां वा निषद्याञ्जलिं प्रगृह्योभयसंघाद् उपसंपद् याचयितव्या ।
शृणोतु भदन्ता उभयसंघः । अहम् एवन्नामिका अर्थहेतोर् नाम गृह्णामि एवन्नामिकाया उपाध्यायिकाया उपसंपत्प्रेक्षिणी साहम् एवन्नामिका उभयसंघाद् उपसंपदं याचे । उपसंपादयन्त् उ मां भदन्ता उभयसंघ । उल्लुंपतु मां भदन्ता उभयसंघः । अनुगृह्णातु । मां भदन्ता उभयसंघः । अनुकम्पतु मां भदन्ता उभयसंघः । अनुकम्पको ऽनुकम्पाम् उपादाय । एवं द्विर् अपि त्रिर् अपि ॥
ततः पश्चात् कर्मकारकेण भिक्षुणा ज्ञप्तिः कर्तव्या । शृणोतु भदन्ता उभयसंघ इयम् एवन्नामिका एवंनामिकाया उपाध्यायिकाया उपसंपत्प्रेक्षिणी सेयम् एवन्नामिका उभयसंघाद् उपसंपदं याचते । एवन्नामिकया उपाध्यायिकया सचेद् उभयसंघस्य ( भीकवा 19ब्1 ) प्राप्तकालं क्षमेतानुजानीयाद् उभयसंघो यद् वयम् एनां उभयसंघमध्ये आन्तरायिकान् धर्मान् पृच्छेम इत्य् एषा ज्ञप्तिः ।
शृणु त्वम् एवन्नामिके अयं ते सत्यकालो यं भूतकालः । यत् ते ऽहं किञ् चित् पृच्छामि । सर्वं तत् त्वया विशारदया भूत्वा भूतं च भूततो वक्तव्यम् अभूतञ् चाभूततो निर्वेठयितव्यं
स्त्री त्वं स्त्री गृहोषिता द्वादशवर्षा कुमारिका वा परिपूर्णविंशतिवर्षा । परिपूर्णविंशतिवर्षा । परिपूर्णं ते पञ्चचीवरं पात्रं च । परिपूर्णं । जीवतस् ते मातापितरौ स्वामी वा जीवति । अनुज्ञातासि मातापितृभ्यां स्वामिना वा । अनुज्ञाता । मासि दासी । न हि मा आहृतिका । मा विक्रीतिका । मा वक्तव्यिका । मा निर्मितिका । मा राजभटी । मा राजकिल्विषिणी । मा त्वया राजापथ्यं कर्म कृतं वा कारितं वा मा चण्डा मा शोकहता मा गुर्विणी मा अव्यञ्जना मा उभयव्यञ्जना मा संभिन्नव्यञ्जना । मा सदाप्रस्रुतलोहिनी । मा अलोहिनी । मा नैमित्तिकी । मा भिक्षुदूषिका । मा मातृघातिका । मा पितृघातिका ( भीकवा 20अ1 ) । मा अर्हद्घातिका । मा तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादिका मा तीर्थिका मा तीर्थावक्रान्तिका मा चौरी मा ध्वजबद्धिका मा स्तेयसंवासिका मा नानासंवासिका मा असंवासिका ।
कच्चित् त्वं पूर्वं प्रव्रजितेति यदि कथयति प्रव्रजिता वक्तव्या अत एव गच्छेति यदि कथयति न प्रव्रजितेति वक्तव्या कच्चिद् एतर्हि प्रव्रजिता । कच्चित् त्वया सम्यग् ब्रह्मचर्यञ् चरितं । चरितं । कच्चित् त्वया भिक्षुणीसंघे द्वे वर्षे षट्सु धर्मेषु षट्स्व् अनुधर्मेषु शिक्षा याचिता । याचिता । शिक्षिता त्वं द्वे वर्षे षट्सु धर्मेषु षट्स्व् अनुधर्मेषु शिक्षायां । शिक्षिता । दत्ता ते भिक्षुणीसंघेन ब्रह्मचर्योपस्थानसंवृतिर् दत्ता कृतं ते भिक्षुणीसंघेन पूर्वकालकरणीयं कृतं आराधितं ते भिक्षुणीसंघस्य चित्तम् आराधितं । परिशुद्धासि न वा । परिशुद्धा । मा त्वया कस्य चित् किञ् चिद् देयं अल्पं वा प्रभूतं वा किन्नामिका त्वं किन्नामिका ते उपाध्यायिका अहम् एवन्नामिका अर्थहेतोर् ( भीकवा 20ब्1 ) नाम गृह्णामि एवन्नामिका मे उपाध्यायिका ।
शृणु त्वम् एवन्नामिके भवन्ति खलु स्त्रीणाम् इम एवंविधाः काये कायिका आबाधाः । तद्यथा गण्डं कुष्ठं किटिभं किलासो दद्रुः कच्छूः । कण्डूः । रजतं विचर्च्चिका । हिक्का । च्छर्द्दिः । अर्शान्सि । ज्वरः । प्रज्वरः । क्षयः । क्लमः । भ्रमः काशः श्वासः । शोषो ऽपस्मारः । आटक्करः । पाण्डुरोगः । श्लीपदः । रक्तपित्तं । भगन्दरः । अङ्गदाहः पार्श्वदाहो ऽस्थिभेदः । एकाहिकः द्वैतीयकः । त्रैतीयकः । चातुर्थकः । सान्निपातिकः । सततज्वरः मा ते एवंरूपाः काये कायिका आबाधाः संविद्यन्ते अन्ये वा । ततस् तया यथाभूतं वक्तव्यं ।
ततो ज्ञप्तिकारकेण भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं । शृणोतु भदन्ता उभयसंघ इयम् एवन्नामिका एवन्नामिकाया उपाध्यायिकाया उपसंपत्प्रेक्षिणी स्त्री गृहोषिता द्वादशवर्षा कुमारिका वा परिपूर्णविंशतिवर्षा परिपूर्णम् अस्याः पञ्चचीवरं ( भीकवा 21अ1 ) पात्रञ् च दत्तास्या भिक्षुणीसंघेन द्वे वर्षे षट्सु धर्मेषु षट्स्व् अनुधर्मेषु शिक्षा । शिक्षिता द्वे वर्षे षट्सु धर्मेषु षट्स्व् अनुधर्मेषु शिक्षायां । दत्ता ऽस्या भिक्षुणीसंघेन त्रिभिर् धर्मैर् ब्रह्मचर्योपस्थानसंवृतिः कृतम् अस्या भिक्षुणीसंघेन पूर्वकालकर् अण् ईयं । आ राधितम् अनया भिक्षुणीसंघस्य चित्तं । परिशुद्धम् आन्तरायिकैर् धर्मैर् आत्मानं वदति सेयम् एवन्नामिका उभयसंघाद् उपसंपदं याचते एवन्नामिकया उपाध्यायिकया सचेद् उभयसंघस्य प्राप्तकालं क्षमेतानुजानीयाद् उभयसंघो यद् उभयसंघ एवन्नामिकाम् उपसंपादयेद् एवंनामिकया उपाध्यायिकयेत्य् एषा ज्ञप्तिः ॥ एवं कर्म कर्तव्यं ॥
शृणोतु भदन्ता उभयसंघ इयम् एवंनामिका एवन्नामिकाया उपाध्यायिकाया उपसंपत्प्रेक्षिणी स्त्री गृहोषिता द्वादशवर्षा कुमारिका वा परिपूर्णविंशतिवर्षा परिपूर्णम् अस्याः पञ्चचीवरं पात्रञ् च । दत्ता ऽस्या भिक्षुणीसंघेन ( भीकवा 21ब्1 ) द्वे वर्षे षट्सु धर्मेषु षट्स्व् अनुधर्मेषु शिक्षा शिक्षिता द्वे वर्षे षट्सु धर्मेषु षट्स्व् अनुधर्मेषु शिक्षायां । दत्ता अस्या भिक्षुणीसंघेन त्रिभिर् धर्मैर् ब्रह्मचर्योपस्थानसंवृतिः कृतम् अस्या भिक्षुणीसंघेन पूर्वकालकरणीयम् आराधितम् अनया भिक्षुणीसंघस्य चित्तं । परिशुद्धम् आन्तरायिकैर् धर्मैर् आत्मानं वदति सेयम् एवन्नामिका उभयसंघाद् उपसंपदं याचते एवन्नामिकया उपाध्यायिकया तद् उभयसंघ एवन्नामिकाम् उपसंपादयेद् एवन्नामिकया उपाध्यायिकया येषाम् आयुष्मतां क्षमते एवन्नामिकाम् उपसंपादयितुम् एवन्नामिकया उपाध्यायिकया ते तूष्णीं येषां न क्षमते ते भाषन्तां । इयं प्रथमा कर्मवाचना । एवं द्वितीया तृतीया कर्मवाचना वक्तव्या ।
उपसंपादिता उभयसंघेन इयम् एवन्नामिका एवन्नामिकया उपाध्यायिकया क्षान्तम् अनुज्ञातं संघेन यस्मात् तूष्णीम् एवम् एतद् धारयामि ।
ततः च्छाया मापयितव्या । भिक्षुण्यो दीर्घदीर्घाभिर् लताभिश् (22अ1) छाया ं मापयन्ति । भगवान् आह । न दीर्घदीर्घाभिर् लताभिश् छाया मापयितव्या । पादैर् म्मापयन्ति । भगवान् आह । न पादैर् मापयितव्या । अपि तु चतुरङ्गुलिकया काष्ठिकया मापयितव्या । यावत्यः काष्ठिकास् तावन्तः पुरुषा वक्तव्याः ।
सामायिका आरोचयितव्या ः । हैमन्तिका ग्रैष्मिका वार्षिका मृतवार्षि का दीर्घवार्षिकाश् च । तत्र हैमन्तिकाश् चत्वारो मासाः ग्रैष्मिकाश् चत्वारो मासाः । वार्षिक एको मासः । मितवार्षिक एकं रात्रिंदिवं । दीर्घवार्षिका ए करात्रोनास् त्रयो मासाः । काल आरोचयितव्यः । अग्रारुणः । मध्यारुणः । पश्चिमारुणः । अनुदित आदित्यः । उदित आदित्यः । अष्टभागोदितः । चतुर्भागोदितः । प् अरि णतो मध्याह्नः । चतुर्भागावशिष्टो दिवसः । अष्टभागावशिष्टः । अनस्तङ्गत आदित्यः । अस्तङ्गत आदित्यः । अनुदितानि नक्षत्राणि । इत्य् एवमादिः ।
त तस् त्र यो ( भीकवा 22ब्1 ) निश्रया आरोचयितव्याः । शृणु त्वम् एवन्नामिके त्रय इमे तेन भगवता जानता पश्यता तथागतेनार्हता सम्यक्संबुद्धेन एवं प्रव्रजितोपसंपन्नाया भ् इ क्षु ण्या निश्रया आख्याता यान् निश्रित्य भिक्षुण्याः स्वाख्याते धर्मविनये प्रव्रज्योपसंपद् भिक्षुणीभावः । कतमे त्रयः ।
पांसुकूलञ् चीवराणां कल्पिकञ् च सुलभञ् च । य न् नि श्रित्य भिक्षुण्याः स्वाख्याते धर्मविनये प्रव्रज्या उपसंपद् भिक्षुणीभावः । उत्सहसे त्वम् एवंनामिके यावज्जीवं पांसुकूलेन चीवरेण यापयितुं । उत्सहे । अ ति रेकलाभः पट्टो वा पटो वा प्रावारो वा अंशुका वा शाणका वा कौशेया व आमिला वा सोमिला वा कृमिवर्णा वा काशिसूक्ष्मं वा क्षोमकसूक्ष्मं वा दुकूलकसूक्ष्म ं वा कोटम्बकसूक्ष्मं वा इति यद् वा पुनर् अन्यद् अपि कल्पिकञ् चीवर ं संघाद् वा उत्पद्येत पुद्गलतो वा तत्रापि ते प्रतिग्रहे मात्रा करणीया । कच्चिद् एवंरूपं स्थानम् अभिसंभोत्स्य से ( भीकवा 23अ1 ) अभि संभोत्स्ये ।
शृणु त्वम् एवन्नामिके पिण्डपातो भोजनानाम् अग्रश् च कल्पिकश् च सुलभश् च यन् निश्रित्य भिक्षुण्याः स्वाख्याते धर्मविनये प्रव्रज्योपसंपद् भि क्षुणी भावः । उत्सहसे त्वम् एवन्नामिके यावज्जीवं पिण्डपातेन भोजनेन यापयितुम् उत्सहे । अतिरेकलाभः । भक्तानि वा तर्प्पणानि वा य वागूपानानि वा नैत्य कं वा न् इ मन्त्रणकं वा आष्टमिकं वा चातुर्दशिकं वा इति यद् वा पुनर् अन्यद् अपि कल्पिकं भोजनं संघाद् वा उत्पद्येत । पुद्गलतो वा तत्रापि ते प्रतिग्रहे मात्रा क रणीया । कच्चिद् एवंरूपं स्थानम् अभिसंभोत्स्यसे । अभिसंभोत्स्ये ।
शृणु त्वम् एवन्नामिके पूतिमुक्तं भैषज्यानां कल्पिकञ् च सुलभञ् च । यन् निश्रित्य भिक्षुण्याः स्वाख्याते धर्मविनये प्रव्रज्योपसंपद् भिक्षुणीभाव उत्सहसे त्वम् एवन्नामिके यावज्जीवं पूतिमुक्तेन भैषज्येन यापयितुम् उत्सहे । अतिरेकलाभः । सर्पिस् तैलम् ( भीकवा 23ब्1 ) मधु फाणितं मूलभैषज्यं गण्डभैषज्यं पत्त्रभैषज्यं पुष्पभैषज्यं फ् अ लभैषज्यं कालिकं यामिकं साप्ताहिकं यावज्जीविकम् इति । यद् वा पुनर् अन्यद् अप् इ कल्पिकं भैषज्यं संघाद् वा उत्पद्येत पुद्गलतो वा तत्रापि ते प्रतिग्रहे मात्रा करणीया कच्चिद् एवंरूपं स्थानम् अभिसंभोत्स्यसे । अभिसंभोत्स्ये ।
शृणु त्वम् ए वन्नामिके अष्टाव् इमे तेन भगवता जानता पश्यता तथ
आ गतेनार्हता सम्यक्संबुद्धेनैवं प्रव्रजितोपसंपन्नाया भिक्षुण्याः पतनीया धर्मा आख्या ता ये षां भिक्षुणी अन्यतमान्यतम त् स्थानं अध्यापद्य सहाध्याप त् त्या अभिक्षुणी भवत्य् अश्रमणी अशाक्यपुत्रीया ध्वस्यते भिक्षुणीभावाद् धतम् अस्या भवति श्राम ण्यं ध्व स्तं मथितं पतितं पराजितम् अप्रत्युद्धार्यम् अस्या भवति श्रामण्यं । तद्यथा तालो मस्तकाच् छिन्नः । अभव्यो हरितत्वाय अभव्यो विरूढिं वृद्धिं विपुलताम् आ प त्तु ं ( भीकवा 24अ1 ) । एवम् एव भिक्षुणी एषाम् अष्टानां स्थानानाम् अन्यतमान्यतमत् स्थानम् अध्यापद्य सहाध्यापत्त्या अभिक्षुणी भवत्य् अश्रमणी अशाक्यपुत्रीया ध्वस्यते भिक्षुणीभावा द् धत म् अस्या भवति श्रामण्यं ध्वस्तं मथितं पतितं पराजितम् अप्रत्युद्धार्यम् अस्या भवति श्रामण्यं कतमे अष्टौ ।
शृणु त्वम् एवन्नामिके अनेकपर्यायेण भगवता कामा विगर्ह् इ ताः कामच्छन्दः । कामस्नेहः । कामप्रेमः कमालयः । कामनियन्तिः । कमाध्यवसानं । कामानां प्रहाणम् आख्यातं प्रतिनिःसर्गो व्यन्तीभावः । क्षयो विरागो निरोधो व्युपशमो ऽस्तङ्गमः । स्तुतः स्तोमितो वर्णितः प्रशस्तो ऽद्याग्रेण त् ए एवन्नामिके संरक्तचित्तया पुरुषश् चक्षुषा चक्षुर् उपनिध्यायत्या न व्यवलोकयितव्यः । कः पुनर् वादो यद् द्वयद्वयेन्द्रियसमापत्त्या अब्रह्मचर्यम् मैथुनं धर्मं प्रतिसेवितुम्
उक्तं भगवता । या पुनर् भिक्षुणी भिक्षुणीभिः सार्धं शिक्षासामीचीं समापन्ना शिक्षाम् अप्रत्याख्याय ( भीकवा 24ब्1 ) शिक्षादौर्बल्यम् अनाविष्कृत्याब्रह्मचर्यं मैथुनं धर्मं प्रतिसेवेतान्ततस् तिर्यग्योनिगतेनापि सार्धम् इत्य्
एवंरूपं भिक्षुणी स्थानम् अध्यापद्य सहाध्यापत्त्या अभिक्षुणी भवत्य् अश्रमणी अशाक्यपुत्रीया ध्वस्यते भ् इक्षुणीभावाद् धतम् अस्या भवति श्रामण्यं ध्वस्तं मथितं पतितं पराजितम् अप्रत्युद्धार्यम् अस्या भवति श्रामण्यं तद्यथा तालो मस्तकाच् छिन्नो ऽभव्यो हरितत्वाय अभव्यो विरूढिं वृद्धिं विपुलताम् आपत्तु म् एवम् एवैवंरूपं भिक्षुणी स्थानम् अध्यापद्य सहाध्यापत्त्या अभिक्षुणी भवत्य् अश्रमणी अशाक्यपुत्रीया ध्वस्यते भिक्षुणीभावाद् धतम् अस्या भवति श्रामण्यं पतित ं मथितं ध्वस् तं पराजितम् अप्रत्युद्धार्यम् अस्या भवति श्रामण्यं तत्रते ऽद्याग्रेण अनध्याचारे अध्याचारवैरमण्यां तीव्रश् चेतस आरक्षास्मृत्यप्रमादे योगः करणीयः । कच्चिद् एवंरूपं स्थानं नाध्यापत्स्यसे । नाध्यापत्स्ये ।
शृणु त्वम् एवन्ना मि के ( भीकवा 25अ1 ) अनेकपर्यायेण भगवता अदत्तादानं विगर्हितं अदत्तादानविरतिः । स्तुता स्तोमिता वर्णिता प्रशस्ता अद्याग्रेण ते एवन्नामिके स्तेयचित्तया न्ततस् ति लतुषम् अपि परकीयन् नादातव्यं कः पुनर् वादः पञ्चमासिकं वा उत्तरपञ्चमासिकं वा
उक्तं भगवता । या पुनर् भिक्षुणी ग्रामगतं वा अरण्यगतं वा परेषाम् अ दत्तं स्तेय संख्यातम् आददीत यद्रूपेणादत्तादानेन राजा वैनं गृहीत्वा राजमात्रो वा हन्याद् वा बध्नीयाद् वा प्रवासयेद् वा एवं चैनं वदेद् धं भोः पुरुष चौरो ऽसि बा लो ऽसि मू ढो ऽसि स्तेयो ऽसीत्य्
एवंरूपं भिक्षुणी स्थानम् अध्यापद्य सहाध्यापत्त्याभिक्षुणी भवत्य् अश्रमणी अशाक्यपुत्रीया पूर्ववद् यावत् स्मृत्यप्रमादे योगः करणीयः । कच्चिद् ए वंरूपं स्थानं नाध्यापत्स्यसे । नाध्यापत्स्ये ।
शृणु त्वम् एवंनामिके अनेकपर्यायेण भगवता प्राणातिपातो विगर्हितः प्राणातिपाताद् विरतिः स्तुता स्तोमिता व र्णिता ( भीकवा 25ब्1 ) प्रशस्ता अद्याग्रेण ते एवंनामिके संचिन्त्यान्ततः कुन्तपिपीलिको पि प्राणी जीवितान् न व्यपरोपयितव्यः । कः पुनर् वादो मनुष्यो वा मनुष्यविग्रहो वा
उ क्तं भगवता । या पुनर् भिक्षुणी मनुष्यं वा मनुष्यविग्रहं वा स्वहस्तं सञ्चिन्त्य जीविताद् व्यपरोप् अय् एच् छस्त्रं वास्याधारयेच् छस्त्राधारकं वास्य पर्येषेत मरणाय वैनं समादा पयेन् म रणवर्णं वास्यानुवर्णयेद् एवं चैनं वदेद् धम् भोः पुरुष किन् ते अनेन पापकेनाशुचिना दुर्जीवितेन मृतं ते भोः पुरुष जीविताद् वरम् इति चित्तानुमतैश् चित् तसंकल्पै र् अनेकपर्यायेण मरणाय वैनं समादापयेन् मरणवर्णं वास्यानुवर्णयेत् । स च तेनोपक्रमेण कालं कुर्याद् इत्य्
एवंरूपं भिक्षुणी स्थानम् अध्यापद्य स हाध्याप त्त्या अभिक्षुणी भवत्य् अश्रमणी अशाक्यपुत्रीया ध्वस्यते भिक्षुणीभावात् पूर्ववद् यावत् स्मृत्यप्रमादे योगः करणीयः । कच्चिद् एवंरूपं स्थानन् नाध्यापत् स्यसे । नाध्या पत्स्ये ( भीकवा 26अ1 )
शृणु त्वम् एवन्नामिके अनेकपर्यायेण भगवता मृषावादो विगर्हितः । मृषावादविरतिः स्तुता स्तोमिता वर्णिता प्रशस्ता अद्याग्रेण ते एवन्नामिके हास्यप्रेक्षिण्या अपि संप्रजानन् मृषावादो न भाषितव्यः कः पुनर् वादो ऽसन्तम् असंविद्यमानम् उत्तरंमनुष्यधर्मं प्रलपितुं ।
उक्तञ् च भगवता या पुनर् भिक्षुणी अनभिजानन्ती अपरिजानन्ती असन्तम् असंविद्यमानम् उत्तरंमनुष्यधर्मम् अलमार्यविशेषाधिगमं ज्ञानं वा दर्शनं वा स्पर्शविहारतां वा प्रतिजानीयाद् इदं जानामीदं पश्यामि किं जानामि दुःखं जानामि । समुदयं निरोधं मार्गं जानामि । किं पश्यामि देवान् पश्यमि नागान् यक्षान् गरुडान् गन्धर्वान् किन्नरान् महोरगान् पिशाचान् कटपूतनान् पश्यामि ।
देवानां शब्दं शृणोमि नागानां यक्षाणां गरुडानां गन्धर्वाणां किन्नराणां महोरगाणां प्रेतानां पिशाचानां कुम्भाण्डानां कटपूतनानां शब्दं ( भीकवा 26ब्1 ) श् ऋणोमि । देवान् दर्शनायोपसंक्रामामि । नागान् यक्षान् गरुडान् गन्धर्वान् किन्नरान् महोरगान् प्रेतान् पिशाचान् कुम्भाण्डान् कटपूतनान् दर्शनायोपसंक्रमामि । देवा अपि मां दर्शनायोपसंक्रामन्ति । नागा यक्षा गरुडा गन्धर्वाः किन्नरा महोरगाः प्रेताः पिशाचाः कुम्भाण्डाः कटपूतना अपि मां दर्शनायोपसंक्रामन्ति । देवैः सार्धम् आलपामि संलपामि संमोदे सातत्यम् अपि समापद्ये नागैर् यक्षैर् गरुडैर् गन्धर्वैः किन्नरैर् महोरगैः प्रेतैः पिशाचैः कुम्भाण्डैः कटपूतनैः सार्धं आलपामि संलपामि संमोदे सातत्यम् अपि समापद्ये देवा अपि मया सार्धं आलपन्ति संलपन्ति प्रतिसंमोदन्ति सातत्यम् अपि समापद्यन्ते । नागा यक्षा गरुडा गन्धर्वाः किन्नरा महोरगाः प्रेताः पिशाचाः कुम्भाण्डाः कटपूतना अपि मया सार्धं आलपन्ति संलपन्ति प्रतिसंमोदन्ते सातत्यम् अपि समापद्यन्ते ।
अलाभ्य् एव ( भीकवा 27अ1 ) संल् लाभ्य् अहम् अस्म्य् अनित्यसंज्ञाया अनित्ये दुःखसंज्ञाया दुःखे अनात्मसंज्ञाया आहारे प्रतिकूलसंज्ञायाः सर्वलोके ऽनभिरतिसंज्ञाया आदीनवसंज्ञायाः प्रहाणसंज्ञाया विरागसंज्ञाया मरणसंज्ञाया निरोधसंज्ञायाः । अशुभसंज्ञाया विनीलकसंज्ञाया विपूयकसंज्ञाया विपटुमकसंज्ञाया व्याध्मातकसंज्ञाया विख्यादितकसंज्ञाया विलोहितकसंज्ञाया विक्षिप्तकसंज्ञाया अस्थिसंज्ञायाः शून्यताप्रत्यवेक्षणसंज्ञायाः ।
अलाभ्य् एव संल् लाभ्य् अहम् अस्मि प्रथमस्य ध्यानस्य द्वितीयस्य तृतीयस्य चतुर्थस्य मैत्र्याः करुणाया मुदिताया उपेक्षाया । आकाशानन्त्यायतनस्य विज्ञानानन्त्यायतनस्य आकिञ्चन्यायतनस्य नैवसंज्ञानासंज्ञायतनस्य
अलाभ्य् एव संल् लाभ्य् अहम् अस्मि श्रोतआपत्तिफलस्य सकृदागामिफलस्य अनागामिफलस्य ऋद्धिविषयस्य दिव्यस्य श्रोत्रस्य चेतःपर्यायस्य पूर्वनिवासस्य च्युत्युपपादस्यास्रवक्षयस्यार्हन्न् ( भीकवा 27ब्1 ) अहम् अस्म्य् अष्टविमोक्षध्यायी उभयतोभागविमुक्त इत्य्
एवंरूपं भिक्षुणी स्थानम् अध्यापद्य सहाध्याप त् त्या अभिक्षुणी भवत्य् अश्रमणी अशाक्यपुत्रीया ध्वस्यते भिक्षुणीभावाद् धतम् अस्या भवति श्रामण्यं ध्वस्तं मथितं पतितं पराजितम् अप्रत्युद्धार्यम् अस्या भवति श्रामण्यं तद्यथा तालो मस्तकाच् छिन्नो ऽभव्यो भवति हरितत्वाय विरूढिं वृद्धिं विपुलताम् आपत्तुम् एवम् एवैवंरूपं भिक्षुणी स्थानम् अध्यापद्य सहाध्यापत्त्या अभिक्षुणी भवत्य् अश्रमणी अशाक्यपुत्रीया ध्वस्यते भिक्षुणीभावाद् धतम् अस्या भवति श्रामण्यं ध्वस्तं मथितं पतितं पराजितम् अप्रत्युद्धार्यम् अस्या भवति श्रामण्यं तत्र ते ऽद्याग्रेण अनध्याचारे अध्याचारवैरमण्यां तीव्रश् चेतस आरक्षास्मृत्यप्रमादे योगः करणीयः । कच्चिद् एवंरूपं स्थानं नाध्यापत्स्यसे । नाध्यापत्स्ये ।
शृणु त्वम् एवन्नामिके उक्तं भगवता या पुनर् भिक्षुणी अवश्रुता अवश्रुतेन पुरुषेणाधश् चक्षुषोर् ऊर्ध्वं जान्वोर् ( भीकवा 28अ1 ) अन्तरामर्षणं परामर्षण ं स्वीकुर्याद् इत्य्
एवंरूपं भिक्षुणी स्थानम् अध्यापद्य सहाध्यापत्त्या अभिक्षुणी भवत्य् अश्रमणी अशाक्यपुत्रीया ध्वस्यते पूर्ववद् यावत् । अध्य् आचारवै रमण्यां तीव्रश् चेतस आरक्षास्मृत्यप्रमादे योगः करणीयः । कच्चिद् एवंरूपं स्थानं नाध्यापत्स्यसे । नाध्यापत्स्ये ।
शृणु त्वम् एवन्नामिके उक्तं भगवता । या पुनर् भि क्षुण्य् अव श्रुता अवश्रुतेन पुरुषेण सार्धं संचग्घेत् संक्रीडेत् संकिलिकिलायेद् उद्देशं निमित्तं संकेतं कुर्याद् आगच्छन्तं वा पुरुषं स्वीकुर्यात् तद्रूपे वा प्रदेशे पञ्ज + + + क्षिपेद् यत्र स्त्री पुरुषस्य वशानुगा भवतीत्य्
एवंरूपं भिक्षुणी अष्टवस्तुकं स्थानम् अध्यापद्य सहाध्यापत्त्या अभिक्षुणी भवत्य् अश्रमणी अशाक्यपुत्रीया पूर्ववद् यावद् अ ध्याचा रवैरमण्यां तीव्रश् चेतस आरक्षास्मृत्यप्रमादे योगः करणीयः । कच्चिद् एवंरूपं स्थानं नाध्यापत्स्यसे । नाध्यापत्स्ये ।
शृणु त्वम् एवन्नामिके उक्तं भगवता या पुन र् भ् इ क्षु णी ( भीकवा 28ब्1 ) पूर्वम् एव पाराजिका असंवास्या सा यदा मृता वा भवति विभ्रान्ता वा परविषयं निष्पलायिता तदा एवं वदेत् पूर्वम् एवाहम् आर्यिका रहो जाने यद् असौ भिक्षु णी पाराजिका असंवास्येत्य्
एवंरूपं भिक्षुणी अवद्यप्रच्छादनस्थानम् अध्यापद्य सहाध्यापत्त्या अभिक्षुणी भवत्य् अश्रमणी अशाक्यपुत्रीया पूर्ववद् यावद् अनध्याचारे अ ध्या चारवैरमण्यां तीव्रश् चेतस आरक्षास्मृत्यप्रमादे योगः करणीयः । कच्चिद् एवंरूपं स्थानं नाध्यापत्स्यसे । नाध्यापत्स्ये ।
शृणु त्वम् एवन्नामिके उक्तं भगवता या पुनर् भि क्षुणी जानन्ती पश्यन्ती यस्य भिक्षोः समग्रेण भिक्षुसंघेनोत्क्षेपणीयं कर्म कृतं । समग्रेण च भिक्षुणीसंघेन अवन्दनार्हसंवृत्या संमतः । तम् उत्कचप्रकचं स ं घे रो म पात यन्तन् निःसरणं प्रवर्तयन्तं सामीचीम् उपदर्शयन्तं अन्तःसीमायां स्थितम् ओसारणां याचन्तम् एवं वदेन् मा त्वम् आर्य उत्कचप्रकचः संघे रोम पातय निःस र णं प्र वर्तय मा ( भीकवा 29अ1 ) सामीचीम् उपदर्शय अन्तःसीमायां स्थित्वा ओसारणां याचस्वाहम् आर्यस्य पात्रेण चीवरेण शिक्येन शरितेन कायबन्धनेन उद्देशेन पाठेन स्वाध्यायेन योगेन म नसि कारेण येन येनार्यस्य विघातो भवति । तेन तेनाविघातं करिष्यामीति । सा भिक्षुणी भिक्षुणीभिर् इदं स्याद् वचनीया मा त्वम् आर्यिके जानन्ती यस्य भिक्षोः स मग्रे ण संघेनोत्क्षेपनीयं कर्म कृतं समग्रेण च भिक्षुणीसंघेन अवन्दनार्हसंवृत्या संमतस् तम् उत्कचप्रकचं संघे रोम पातयन्तन् नि ः सरणं प्रवर्तयन्तं सामीचीम् उ प दर्शयन्तं अन्तःसीमायां स्थित्वा ओसारण् आ ं याचन्तम् एवं वद । मा त्वम् आर्य उत्कचप्रकचः संघे रोम पातय मा निःसरणं प्रवर्तय मा सामीचीम् उपदर्शय मा अन्तःसीमायां स्थित्वा ओ सारणां याचस्वाहम् आर्यस्य पात्रेण चीवरेण शिक्येन सरितेन कायबन्धनेन उद्देशेन पाठेन स्वाध्यायेन योगेन मनसिकारेण येन येनार्यस्य विघातो भवति ते न ते नाविघातं ( भीकवा 29ब्1 ) करोमीति निःसृज त्वम् आर्यिके इमम् एवंरूपं उत्क्षिप्तानुवर्तकं वचनपथम् एवाम् चेत् सा भिक्षुणी भिक्षुणीभिर् उच्यमाना तद् वस्तु प्रतिनिःसृजेद् इत्य् एव ं कुश लं नो चेत् प्रतिनि ःसृ जति द्विर् अपि त्रिर् अपि समनुयोक्तव्या तस्य वस्तुनः प्रतिनिःसर्गाय द्विर् अपि त्रिर् अपि समनुयुज्यमाना समनुशिष्यमाणा तद् वस्तु प्रतिनि ः सृजती त्य् एवं कु शलं नो चेत् प् र् अतिनिःसृजतीत्य्
एवंरूपं भिक्षुणी उत्क्षिप्तानुवर्तकं स्थानम् अध्यापद्य सहाध्यापत्त्या अभिक्षुणी भवत्य् अश्रमण्य् अशाक्यपुत्रीया पूर्ववद् यावद् अध्याचारवैरमण्यां तीव्रश् चेतस आरक्षास्मृत्यप्रमादे योगः करणीयः कच्चिद् एवंरूपं स्थानन् नाध्यापत्स्यसे । नाध्यापत्स्ये ।
शृ णु त्वम् एवन्नामिके अष्टाव् इमे तेन भगवता जानता पश्यता तथागतेनार्हता सम्यक्संबुद्धेनैवं प्र व्र जितोपसंपन्नाया भिक्षुण्या गुरुधर्माः प्रज्ञप्ता आवरणयानतिक्र मणा य यत्र मातृग्रामेण यावज्जीवं शिक्षा करणीया । कतमे अष्टौ
भिक्षुभ्यः स् अका श् आद् एवंनामिके मातृग्रामेण प्रव्रज्या उपसंप द् भिक्षुणीभावः प्रतिकांक्षि तव्य ( भीकवा 30अ1 ) अयम् एवन्नामिके भगवता मातृग्रामस्य प्रथमो गुरुधर्मः प्रज्ञप्तः । आवरणायानतिक्रमणाय यत्र मातृग्रामेण यावज्जीवं शिक्षा करणीया ।
भिक्षुभ्यः सकाश् आद् भिक्षुण्या अन्वर्धमासम् अववादानुशासनी पर्येषितव्या । अयम् एवन्नामिके भगवता मातृग्रामस्य द्वितीयो गुरुधर्मः प्रज्ञप्त आ वरणायानतिक्रमणाय यत्र मातृग्रामेण यावज्जीवं शिक्षा करणीया ।
न भिक्षुण्या अभिक्षुके आवासे वर्षा उपगन्तव्या अयम् एवंनामिके भगवता मातृग्राम स्य तृतीयो गुरुधर्मः प्रज्ञप्तः । आ वरणायानतिक्रमणाय यत्र मातृग्रामेण यावज्जीवं शिक्षा करणीया ।
वर्षोषितया भिक्षुण्या उभयसंघस् त्रिभिः स्थानैः प्रवारयितव्य् अः । दृष्टेन श्रुतेन परिशङ्कया । अयं एवन्ना मिके भगवता मातृग्रामस्य चतुर्थो गुरुधर्मः प्रज्ञप्त । आवरणायानतिक्रमणाय यत्र मातृग्रामेण यावज्जीवं शिक्षा क रणीया ।
न भिक्षुण्या भिक्षुश् चोदयितव्यः ( भीकवा 30ब्1 ) स्मारयितव्यः शीलविपत्त्या दृष्टिविपत्त्या आचारविपत्त्या आजीवविपत्त्या । आवृतं भिक्षुण्या भिक्षुञ् चोदयितुं स्मारयितुं शीलविपत्त्या दृष्टिविपत्त्या आजीव विपत्त्या । अनावृतं भिक्षोर् भिक्षुणीं चोदयितुं स्मारयितुं शीलविपत्त्या दृष्टिविपत्त्या आजीवविपत्त्या अयम् एवन्नामिके भगवता मा तृग्रामस्य पञ्चमो गुरुधर्मः प्रज्ञप्त आवरणायानतिक्रमणाय यत्र मातृग्रामेण यावज्जीवं शिक्षा करणीया ।
न भिक्षुण्या भिक्षुर् आक्रोष्टव्यो न रोषयितव्य आवृतम् भिक्षुण्या भिक्षुम् आक्रोष्टुं रोषयितुं परिभाषयितुम् अयम् एवंनामिके भगवता मातृग्रामस्य षष्टो गुरुधर्मः प्रज्ञप्त आवरणायानतिक्रमणाय यत्र मातृग्रामेण यावज्जी वं शिक्षा करणीया ।
गुरुधर्माध्याप न्नया भिक्षुण्या उभयसंघे अन्वर्धमासं मानाप्यञ् चरितव्यम् अयम् एवन्नामिके भगवता मातृग्रामस्य सप्तमो गुरुधर्मः प्रज्ञप्त आवर णायानतिक्रमणाय यत्र मातृग्रामेण ( भीकवा 31अ1 ) यावज्जीवं शिक्षा करणीया ।
वर्षशतोपसंपन्नया भिक्षुण्या तद् अहर् उपसंपन्नस्य भिक्षोर् अभिवादनवन्दनप्रत्युत्थानाञ्जलिसामीचीकर्म कर्तव्य् अम् अयम् एवन्नामिके भगव ता मातृग्रामस्याष्टमो गुरुधर्मः प्रज्ञप्त आवरणायानतिक्रमणाय यत्र मातृग्रामेण यावज्जीवं शिक्षा करणीया ।
कच्चिद् एतान् अष्टौ गुरुधर्मान् समादाय व र्तसे । वर्ते ।
शृणु त्वम् एवन्नामिके चत्वार इमे तेन भगवता पूर्ववद् यावत् सम्यक्संबुद्धेनैवं प्रव्रजितोपसंपन्नाया भिक्षुण्याः श्र मणकारकाः । कतमे च त्वारः ।
अद्याग्रेण एवन्नामिके आक्रुष्टया न प्रत्याक्रोष्टव्यं । रोषितया न प्रतिरोषितव्यं । ताडितया न प्रतिताडितव्यं भण्डितया न प्र तिभण्डितव्यं ॥
शृणु त्वम् एव न्नामिके यस् त् ए भू द् द् ईर् घ रात्रम् आशासकः । अहो वताहं लभेय स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुणीभावम् इति ।
सा त्वम् एतर्हि ( भीकवा 31ब्1 ) प्रव्रजितोपसंप न्ना प्रतिरूपया उपाध्यायिकया प्रतिरूपाभ्याम् आचार्याभ्यां समग्रेणोभयसंघेन ज्ञप्तिचतुर्थेन कर्मणा अकोप्येनास्थाप नार्हेण
यत्र वर्षशतोपस ंपन्नया भिक्षुण्या शिक्षायां शिक्षितव्यं । तत्र तद् अहर् उपसंपन्नया यत्र तद् अहर् उपसंपन्नया तत्र वर्षशतोपसंपन्नया इति
या तु समानशीलता समानशि क्षता समानप्रातिमोक्षसूत्रोद्देशता सा ते ऽद्याग्रेणारागयितव्या न विरागयितव्या
अद्याग्रेण ते एवंनामिके उपाध्यायिकाय् आ अन्तिके मातृसंज्ञा उपस्था पयितव्या उपाध्यायिकया अपि तवान्तिके दुहितृसंज्ञा उपस्थापयितव्या
अद्याग्रेण ते उपाध्यायिका यावज्जीवं ग्लाना उपस्था पयितव्या + + + + + + + .आनाद् वा उपाध्यायिकया त्वं ग्लाना उपस्था पयि तव्या ।
अद्याग्रेण ते एवन्नामिके सगौरवतया विहर्तव्यं । सप्रतीशतया सभयवशवर्तिन्या स ब्रह्मचार्. ॥।
मूल पाठ: Bhikṣuṇīkarmavācanā · Edition: Michael Schmidt: Bhikṣuṇī-Karmavācanā: Die Handschrift Sansk. c. 25 (R) der Bodleian Library Oxford. In: Studien zur Indologie und Buddhismuskunde, Festgabe für Professor Dr. Heinz Bechert zum 60. Geburtstag am 26. Juni 1992, hg. R. Grünendahl, J.-U. Hartmann, P. Kieffer-Pülz, Bonn 1993 (Indica et Tibetica, 22), pp. 239-288. · Data entry Michael Schmidt · GRETIL (Göttingen) · CC BY-NC-SA 4.0