भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 08.17

08.17.001

भ्प्_08.17.001।0 श्रीशुक उवाच
इत्य् उक्ता सादिती राजन् स्वभर्त्रा कश्यपेन वै ।
अन्वतिष्ठद्व्रतमिदं द्वादशाहमतन्द्रिता

08.17.002

चिन्तयन्त्य् एकया बुद्ध्या महापुरुषमीश्वरम् ।
प्रगृह्येन्द्रियदुष्टाश्वान् मनसा बुद्धिसारथिः

08.17.003

मनश्चैकाग्रया बुद्ध्या भगवत्य् अखिलात्मनि ।
वासुदेवे समाधाय चचार ह पयोव्रतम्

08.17.004

तस्याः प्रादुरभूत् तात भगवान् आदिपुरुषः ।
पीतवासाश्चतुर्बाहुः शङ्खचक्रगदाधरः

08.17.005

तं नेत्रगोचरं वीक्ष्य सहसोत्थाय सादरम् ।
ननाम भुवि कायेन दण्डवत्प्रीतिविह्वला

08.17.006

सोत्थाय बद्धाञ्जलिरीडितुं स्थिता नोत्सेह आनन्दजलाकुलेक्षणा ।
बभूव तूष्णीं पुलकाकुलाकृतिस् तद्दर्शनात्युत्सवगात्रवेपथुः

08.17.007

प्रीत्या शनैर्गद्गदया गिरा हरिं तुष्टाव सा देव्य् अदितिः कुरूद्वह ।
उद्वीक्षती सा पिबतीव चक्षुषा रमापतिं यज्ञपतिं जगत्पतिम्

08.17.011

भ्प्_08.17.008।0 श्रीअदितिरुवाच
यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद $ तीर्थश्रवः श्रवणमङ्गलनामधेय &
यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद $ तीर्थश्रवः श्रवणमङ्गलनामधेय &
आपन्नलोकवृजिनोपशमोदयाद्य % शं नः कृधीश भगवन्नसि दीननाथः ॥ भ्प्_08.17.008* ॥
विश्वाय विश्वभवनस्थितिसंयमाय $ स्वैरं गृहीतपुरुशक्तिगुणाय भूम्ने &
विश्वाय विश्वभवनस्थितिसंयमाय $ स्वैरं गृहीतपुरुशक्तिगुणाय भूम्ने &
स्वस्थाय शश्वदुपबृंहितपूर्णबोध % व्यापादितात्मतमसे हरये नमस्ते ॥ भ्प्_08.17.009* ॥
आयुः परं वपुरभीष्टमतुल्यलक्ष्मीर् $ द्योभूरसाः सकलयोगगुणास्त्रिवर्गः &
आयुः परं वपुरभीष्टमतुल्यलक्ष्मीर् $ द्योभूरसाः सकलयोगगुणास्त्रिवर्गः &
ज्ञानं च केवलमनन्त भवन्ति तुष्टात् % त्वत्तो नृणां किमु सपत्नजयादिराशीः ॥ भ्प्_08.17.010*
0 श्रीशुक उवाच
अदित्यैवं स्तुतो राजन् भगवान् पुष्करेक्षणः ।
क्षेत्रज्ञः सर्वभूतानामिति होवाच भारत

08.17.012

भ्प्_08.17.012।0 श्रीभगवान् उवाच
देवमातर्भवत्या मे विज्ञातं चिरकाङ्क्षितम् ।
यत् सपत्नैर्हृतश्रीणां च्यावितानां स्वधामतः

08.17.013

तान् विनिर्जित्य समरे दुर्मदान् असुरर्षभान् ।
प्रतिलब्धजयश्रीभिः पुत्रैरिच्छस्य् उपासितुम्

08.17.014

इन्द्रज्येष्ठैः स्वतनयैर्हतानां युधि विद्विषाम् ।
स्त्रियो रुदन्तीरासाद्य द्रष्टुमिच्छसि दुःखिताः

08.17.015

आत्मजान् सुसमृद्धांस्त्वं प्रत्याहृतयशःश्रियः ।
नाकपृष्ठमधिष्ठाय क्रीडतो द्रष्टुमिच्छसि

08.17.016

प्रायो ऽधुना ते ऽसुरयूथनाथा अपारणीया इति देवि मे मतिः ।
यत् ते ऽनुकूलेश्वरविप्रगुप्ता न विक्रमस्तत्र सुखं ददाति

08.17.017

अथाप्य् उपायो मम देवि चिन्त्यः सन्तोषितस्य व्रतचर्यया ते ।
ममार्चनं नार्हति गन्तुमन्यथा श्रद्धानुरूपं फलहेतुकत्वात्

08.17.018

त्वयार्चितश्चाहमपत्यगुप्तये पयोव्रतेनानुगुणं समीडितः ।
स्वांशेन पुत्रत्वमुपेत्य ते सुतान् गोप्तास्मि मारीचतपस्य् अधिष्ठितः

08.17.019

उपधाव पतिं भद्रे प्रजापतिमकल्मषम् ।
मां च भावयती पत्यावेवं रूपमवस्थितम्

08.17.020

नैतत् परस्मा आख्येयं पृष्टयापि कथञ्चन ।
सर्वं सम्पद्यते देवि देवगुह्यं सुसंवृतम्

08.17.021

भ्प्_08.17.021।0 श्रीशुक उवाच
एतावदुक्त्वा भगवांस्तत्रैवान्तरधीयत ।
अदितिर्दुर्लभं लब्ध्वा हरेर्जन्मात्मनि प्रभोः

08.17.022

उपाधावत् पतिं भक्त्या परया कृतकृत्यवत् ।
स वै समाधियोगेन कश्यपस्तदबुध्यत

08.17.023

प्रविष्टमात्मनि हरेरंशं ह्य् अवितथेक्षणः ।
सो ऽदित्यां वीर्यमाधत्त तपसा चिरसम्भृतम् ।
अमाहितमना राजन् दारुण्य् अग्निं यथानिलः

08.17.024

अदितेर्धिष्ठितं गर्भं भगवन्तं सनातनम् ।
हिरण्यगर्भो विज्ञाय समीडे गुह्यनामभिः

08.17.025

भ्प्_08.17.025।0 श्रीब्रह्मोवाच
जयोरुगाय भगवन्नुरुक्रम नमो ऽस्तु ते ।
नमो ब्रह्मण्यदेवाय त्रिगुणाय नमो नमः

08.17.026

नमस्ते पृश्निगर्भाय वेदगर्भाय वेधसे ।
त्रिनाभाय त्रिपृष्ठाय शिपिविष्टाय विष्णवे

08.17.027

त्वमादिरन्तो भुवनस्य मध्यम् अनन्तशक्तिं पुरुषं यमाहुः ।
कालो भवान् आक्षिपतीश विश्वं स्रोतो यथान्तः पतितं गभीरम्

08.17.028

त्वं वै प्रजानां स्थिरजङ्गमानां प्रजापतीनामसि सम्भविष्णुः ।
दिवौकसां देव दिवश्च्युतानां परायणं नौरिव मज्जतो ऽप्सु

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc