ग्रंथ पाठ
भगवद्गीता · अध्याय 45
45.2
विश्वनाथः : कर्म-योगो विशिष्यत इति ज्ञानिनः कर्म-करणे न को ऽपि दोषः । प्रत्युत निष्काम-कर्मणा चित्त-शुद्धि-दार्ढ्याज् ज्ञान-दार्ढ्यम् एव स्यात् । संन्यासिनस् तु कदाचित् चित्त-वैगुण्ये सति तद्-उपशमनार्थं किं कर्म निषिद्धम् ? ज्ञानाभ्यास-प्रतिबन्धकं तु चित्त-वैगुण्यम् एव । विषय-ग्रहणे तु वान्ताशित्वम् एव स्याद् इति भावः
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0