भगवद्गीता · अध्याय 34
बलदेवः :
तुर्ये स्वाभिव्यक्ति-हेतुं स्व-लीला-
नित्यत्वं सत्-कर्मसु ज्ञान-योगम् ।
ज्ञानस्यापि प्राय् यन्-माहात्म्यम् उच्चैः
प्राख्यद् देवो देवकीनन्दनो ऽसौ ॥
पूर्वाध्यायाभ्याम् उक्तं ज्ञान-योगं कर्म-योगं चैक-फलत्वाद् एकीकृत्य तद्-वंशं कीर्तयन् स्तौति इमम् इति । इमं त्वां सूर्यायाहं प्रोक्तवान् । अव्ययं नित्यं वेदार्तह्त्वान् नवेयेति स्व-फलादित्यव्यभिचारि-फलत्वाच् च । स च मच्-छिष्यो विवस्वान् स्व-पुत्राय मनवे वैवस्वताय प्राह । स च मनुर् इक्ष्वाकवे स्व-पुत्रायाब्रवीत्
भ्ग् 4.2
एवं परम्परा-प्राप्तम् इमं राजर्षयो विदुः ।
स कालेनेह महता योगो नष्टः परन्तप
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0