भगवद्गीता · अध्याय 19
ज्ञानं कर्म च विस्पष्टम् अस्पष्टं भक्तिम् उक्तवान् ।
अतएवायम् अध्यायः श्री-गीता-सूत्रम् उच्यते ॥
इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् ।
श्री-गीतासु द्वितीयो ऽयं सङ्गतः सङ्गतः सताम्
बलदेवः : स्थित-प्रज्ञतां स्तौति एषेति । ब्राह्मी ब्रह्म-प्रापिका । अन्त-काले चरमे वयसि । किं पुनर् आकौमारं ब्रह्म ऋच्छति लभते । निर्वाणम् अमृत-रूपं तत् प्रदम् इत्य् अर्थः । ननु तस्यां स्थितः कथं ब्रह्म प्राप्नोति । तत्-प्राप्तेस् तद्-भक्ति-हेतुकत्वाद् इति चेद् उच्यते । तस्यास् तद्-भक्ति-हेतुकत्वात् तद्-भक्ति-हेतुत्वाच् च तत्-प्रापकतेति
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0