भाषा

ENहिગુ
ग्रंथ पाठ

बौधायनधर्मसूत्र · भाग 4142

बौध्4.5.32च्द्। पूर्व.उक्त.यन्त्र.शुद्धेभ्यः सर्वेभ्यः सो^(अतिरिच्यते ॥
बौध्4.6.1अब्। स.माधुच्छन्दसा रुद्रा गायत्री प्रणव.अन्विता ।
बौध्4.6.1च्द्। सप्त व्याहृतयश् च^एव जप्याः [क्: जाप्याः] पाप.विनाशनाः ॥
बौध्4.6.2अब्। मृगारेष्टिः पवित्रेष्टिस् त्रिहविः पावमान्य् अपि ।
बौध्4.6.2च्द्। इष्टयः पाप.नाशिन्यो वैश्वानर्या समन्विताः ॥
बौध्4.6.3अब्। इदं च^एव^अपरं गुह्यम् उच्यमानं (निबोधत ।
बौध्4.6.3च्द्। (मुच्यते सर्व.पापेभ्यो महतः पातकाद् ऋते ॥
बौध्4.6.4अब्। पवित्रैर् मार्जनं कुर्वन् रुद्र.एकादशिनीं [क्:रुद्रैकार्देशिकां] जपन् ।
बौध्4.6.4च्द्। पवित्राणि घृतैर् जुह्वत् प्रयच्छन् हेम.गो.तिलान् ॥
बौध्4.6.5अब्। यो^(अश्नीयाद् यावकं पक्वं गो.मूत्रे स.शकृद्.रसे ।
बौध्4.6.5च्द्। स.दधि.क्षीर.सर्पिष्के (मुच्यते सो^अंहसः क्षणात् ॥
बौध्4.6.6अब्। प्रसूतो यश् च शूद्रायां येन^अगम्या च लङ्घिता ।
बौध्4.6.6च्द्। सप्त.रात्रात् (प्रमुच्येते विधिना^एतेन ताव् उभौ ॥
बौध्4.6.7अब्। रेतो.मूत्र.पुरीषाणां प्राशने^अभोज्य.भोजने ।
बौध्4.6.7च्द्। पर्याधान.इज्ययोर् एतत् परिवित्ते च भेषजम् ॥
बौध्4.6.8अब्। अपातकानि कर्माणि कृत्वा^एव सुबहून्य् अपि ।
बौध्4.6.8च्द्। (मुच्यते सर्व.पापेभ्य इत्य् एतद् वचनं सताम् ॥
बौध्4.6.9अब्। मन्त्र.मार्ग.प्रमाणं तु विधानं [क्: विधाने] समुदीरितम् ।
बौध्4.6.9च्द्। भरद्वाज.आदयो येन ब्रह्मणः सात्मतां [क्: समतां] गताः ॥
बौध्4.6.10-1अब्। प्रसन्न.हृदयो विप्रः प्रयोगाद् अस्य कर्मणः ।
बौध्4.6.10-1च्द्। कामांस् तांस् तान् (अवाप्नोति ये ये कामा हृदि स्थिताः ॥
बौध्4.6.10-2। ये ये कामा हृदि स्थिता इति ॥
बौध्4.7.1अब्। निवृत्तः पाप.कर्मभ्यः प्रवृत्तः पुण्य.कर्मसु ।
बौध्4.7.1च्द्। यो विप्रस् तस्य (सिध्यन्ति विना यन्त्रैर् अपि क्रियाः ॥
बौध्4.7.2अब्। ब्राह्मणा ऋजवस् तस्माद् यद् यद् (इच्छन्ति चेतसा ।
बौध्4.7.2च्द्। तत् तद् (आसादयन्त्य् आशु संशुद्धा ऋजु.कर्मभिः ॥
बौध्4.7.3अब्। एवम् एतानि यन्त्राणि तावत् कार्याणि धीमता ।
बौध्4.7.3च्द्। कालेन यावता^(उपैति विग्रहः [क्: विग्रहं] शुद्धिम् आत्मनः ॥
बौध्4.7.4अब्। एभिर् यन्त्रैर् विशुद्ध.आत्मा त्रि.रात्र.उपोषितस् ततः ।
बौध्4.7.4च्द्। तद् (आरभेत येन^ऋद्धिं कर्मणा (प्राप्तुम् (इच्छति ॥
बौध्4.7.5अब्। क्ष्मापवित्रः [क्: क्षापवित्रं] सहस्राक्षो मृगारो^अंहोमुचौ गणौ ।
बौध्4.7.5च्द्। पावमान्यश् च कूश्माण्ड्यो वैश्वानर्य ऋचश् च याः ॥
बौध्4.7.6अब्। घृत.ओदनेन ता जुह्वत् सप्त.अहं सवन.त्रयम् ।
बौध्4.7.6च्द्। मौन.व्रती हविष्य.आशी निगृहीत.इन्द्रिय.क्रियः ॥
बौध्4.7.7अब्। सिंहे म इत्य् अपां पूर्णे पात्रे^(अवेक्ष्य चतुष्.पथे ।
बौध्4.7.7च्द्। (मुच्यते सर्व.पापेभ्यो महतः पातकाद् अपि ॥
बौध्4.7.8अब्। वृद्धत्वे यौवने बाल्ये यः कृतः पाप.संचयः ।
बौध्4.7.8च्द्। पूर्व.जन्मसु च^अज्ञानात् [क्: वाज्ञानात्] तस्माद् अपि (विमुच्यते ॥
बौध्4.7.9अब्। (भोजयित्वा द्विजान् अन्ते पायसेन स.सर्पिषा [क्: सुसर्पिषा] ।
बौध्4.7.9च्द्। गो.भूमि.तिल.हेमानि भुक्तवद्भ्यः (प्रदाय च ॥

बौध्4.7.10अब्। विप्रो (भवति पूत.आत्मा निर्दग्ध.वृजिन.इन्धनः ।
बौध्4.7.10च्द्। काम्यानां कर्मणां योग्यस् [क्: योज्यः]तथा^आधान.आदि.कर्मणाम् ॥
बौध्4.8.1अब्। अतिलोभात् प्रमादाद् वा यः (करोति क्रियाम् इमाम् ।
बौध्4.8.1च्द्। अन्यस्य सो^अंहस्.आविष्टो गर.गीर् इव (सीदति ॥
बौध्4.8.2अब्। आचार्यस्य पितुर् मातुर् आत्मनश् च क्रियाम् इमाम् ।
बौध्4.8.2च्द्। कुर्वन् (भात्य् अर्क.वद् विप्रः सा कार्या^एषाम् अतः क्रिया ॥
बौध्4.8.3अब्। क एतेन सहस्र.अक्षं पवित्रेण^(अकरोत्^शुचिम् ।
बौध्4.8.3च्द्। अग्निं वायुं रविं सोमं यम.आदींश् च सुर.ईश्वरान् ॥
बौध्4.8.4अब्। यत् किंचित् पुण्य.नाम^इह त्रिषु लोकेषु विश्रुतम् ।
बौध्4.8.4च्द्। विप्र.आदि तत् कृतं केन पवित्र.क्रियया^अनया ॥
बौध्4.8.5अब्। प्राजापत्यम् [क्: प्रजापत्यम्] इदं गुह्यं पाप.घ्नंप्रथम.उद्भवम् ।
बौध्4.8.5च्द्। समुत्पन्नान्य् अतः पश्चात् पवित्राणि सहस्रशः ॥
बौध्4.8.6अब्। यो^अब्द.आयन.ऋतु.पक्ष.अहान्^(जुहोत्य् अष्टौ गणान् इमान् ।
बौध्4.8.6च्द्। (पुनाति च^आत्मनो वंश्यान् दश पूर्वान् दश^अवरान् [क्:दशापरान्] ॥
बौध्4.8.7अब्। (ज्ञायते च^अमरैर् द्यु.स्थैः पुण्य.कर्मा^इति भू.स्थितः ।
बौध्4.8.7च्द्। देव.वत्^(मोदते भूयः स्वर्ग.लोके^अपि पुण्य.कृत् ॥ [क् पुत्स्थिस् वेर्से अfतेर् बौध्4.8.12]
बौध्4.8.8अब्। एतान् अष्टौ गणान् (होतुं न (शक्नोति यदि द्विजः ।
बौध्4.8.8च्द्। एको^अपि तेन होतव्यो रजस् तेन^अस्य (नश्यति ॥
बौध्4.8.9अब्। सूनवो यस्य शिष्या वा (जुह्वत्य् अष्टौ गणान् इमान् ।
बौध्4.8.9च्द्। अध्यापन.परिक्रीतैर् अंहसः सो^अपि (मुच्यते ॥
बौध्4.8.10अब्। धनेन^अपि परिक्रीतैर् आत्म.पाप.जिघांसया ।
बौध्4.8.10च्द्। हावनीया ह्य् अशक्तेन न^अवसाद्यः शरीर.धृक् ॥
बौध्4.8.11अब्। धनस्य (क्रियते त्यागः कर्मणां सुकृताम् अपि ।
बौध्4.8.11च्द्। पुंसो^अनृणस्य पापस्य विमोक्षः (क्रियते क्वचित् ॥
बौध्4.8.12अब्। विमुक्तो [क्: मुक्तो यो] विधिना^एतेन सर्व.पापार्ण.सागरात् ।
बौध्4.8.12च्द्। आत्मानं (मन्यते शुद्धं समर्थं कर्म.साधने ॥
बौध्4.8.13अब्। सर्व.पापार्ण.मुक्त.आत्मा क्रिया (आरभते तु याः ।
बौध्4.8.13च्द्। अयत्नेन^एव ताः सिद्धिं (यान्ति शुद्ध.शरीरिणः ॥
बौध्4.8.14अब्। प्राजापत्यम् [क्: प्रजापत्यम्] इदं पुण्यम् ऋषिणा [क्: ऋषीणां]समुदीरितम् ।
बौध्4.8.14च्द्। इदम् (अध्यापयेन् नित्यं (धारयेत्^(शृणुते^अपि वा ।
बौध्4.8.14एf। (मुच्यते सर्व.पापेभ्यो ब्रह्म.लोके (महीयते ॥
बौध्4.8.15अब्। यान् (सिषाधयिषुर् मन्त्रान् द्वादश.अहानि ताञ् (जपेत् ।
बौध्4.8.15च्द्। घृतेन पयसा दध्ना (प्राश्य निश्य् ओदनं सकृत् ॥[क् बेfओरे बौध्4.8.16-1अब्: ऋग्यजुस्सामवेदानाम् अथर्वाङ्गिरसाम् अपि ।]
बौध्4.8.16-1अब्। दशवारं तथा होमः सर्पिषा सवन.त्रयम् ।
बौध्4.8.16-1च्द्। पूर्व.सेवा (भवेद् एषां [क्: एषा] मन्त्राणां कर्म.साधने ॥
बौध्4.8.16-2। मन्त्राणां कर्मसाधन इति ॥अतिलोभात् प्रमादाद् वा । निवृत्तः पापकर्मभ्यः ॥ समाधुश्छन्दसारुद्राः ॥ अथातः संप्रवक्ष्यामि ॥ प्रायश्चित्तानि वक्ष्यामः ॥प्रायश्चित्तानि वक्ष्यामः ॥ प्रायश्चित्तानि वक्ष्यामः ॥ प्रायश्चित्तानिवक्ष्यामः ॥ इति चतुर्थः प्रश्नः ॥4
॥ इति बौधायनधर्मसूत्रंसमाप्तम् ॥

मूल पाठ: Baudhāyanadharmasūtra · Edition: [H] E. Hultzsch (ed.): Das Baudhayana-Dharmasutra. Zweite, verbesserte Auflage. [Abhandlungen fur die Kunde des Morgenlandes, 16] Leipzig 1922. [K] Umesa Chandra Pandeya (ed.): The Baudhayana-Dharmasutra with the 'Vivarana' Commentary by Sri Govinda Svami and Critical Notes by M. M. A. Chinnaswami Sastri. [The Kashi Sanskrit Series, 104] Varanasi 1972. · Data entry Masato Fujii & Mieko Kajihara · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc