भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 26

26.1

इति
भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द अनेन श्रेष्ठिना ममैवंविधं सत्कारं कृतम्* । एवं भदन्त । एष आनन्द श्रेष्ठी अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च सूक्ष्मत्वग् इति नाम प्रत्येकबुद्धो भविष्यति । अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसादः इति । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यद् बुद्धप्रत्येकबुद्धार्यश्रावकेषु कारान् करिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 66 --------------------
अव्श्_26 शीतप्रभः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्यां अन्यतमो गृहपतिर् आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः । तस्यैतद् अभवत्: इमे भोगा जलचन्द्रस्वभावा गजकर्णसदृशा अनित्या अध्रुवा अनाश्वासिका विपरिणामधर्माणः पञ्चभिर् उग्रदण्डैः साधारणाः । यन्व् अहम् असारेभ्यो भोगेभ्यः सारम् आदद्याम् इति । तेन ग्रीष्मकाले वर्तमाने भगवान् सश्रावकसंघो भक्तेनोपनिमन्त्रितः । गृहं चापगतपाषाणशर्करकठल्लं व्यवस्थापितं चन्दनवारिपरिषिक्तं विचित्रगन्धघटिकासुरभिधूपधूपितं नानापुष्पाभिकीर्णम्* । पुष्पासनानि प्रज्ञप्तानि । ततः शीतरसानि पानकानि भक्ष्यभोज्यानि च सज्जीकृत्य भगवतो दूतेन कालम् आरोचयति: समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति । ततो भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन तस्य गृहपतेर् निवेशनं तेनोपसंक्रान्तः । उपसंक्रम्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । अथ स गृहपतिः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति । अनेकपर्यायेन शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रं नीचतरासनं गृहीत्वा भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय । अथ भगवांस् तं गृहपतिं धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति । अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य
तूष्णींभूतः । अथ स गृहपतिर् लब्धप्रसादः पादयोर् निपत्य चेतनां पुष्णाति ।
ततो भगवान् स्मितं विदर्शितवान्* । धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषूष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः, आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां {तं} निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्त इतश् च्युताः, नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्,
-------------------- वैद्य, प्. 67 --------------------
यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभाञ् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च भाषन्ते:
आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने ।
धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः

26.2

यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति ।
प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति

26.3

अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं कर्म व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥
अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायाम् अन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ:
नानाविधो रङ्गसहस्रचित्रो
वक्त्रान्तरान् निष्कसितः कलापः ।
अवभासिता येन दिशः समन्ताद्
दिवाकरेणोदयता यथैव

26.4

गाथाश् च भाषते:
विगतोद्भवा दैन्यमदप्रहीणा
बुद्धा जगत्य् उत्तमहेतुभूताः ।
नाकारणं शङ्खमृणालगौरं
स्मितम् उपदर्शयन्ति जिना जितारयः

26.5

तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या
श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* ।
धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर्
उत्पन्नं व्यपनय संशयं शुभाभिः

26.6

-------------------- वैद्य, प्. 68 --------------------
नाकास्माल् लवणजलाद्रिराजधैर्याः
संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः ।
यस्यार्थे स्मितम् उपदर्शयन्ति धीराः
तं श्रोतुं समभिलषन्ति ते जनौघाः

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc