भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 9.9

9.9.40

स य एवं विद्वान् क्षीरमुपसिच्योपहरति ।
यावदग्निष्टोमेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे

9.9.41

स य एवं विद्वान्त्सर्पिरुपसिच्योपहरति ।
यावदतिरात्रेणेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे

9.9.42

स य एवं विद्वान् मधूपसिच्योपहरति ।
यावद्सत्त्रसद्येनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे

9.9.43

स य एवं विद्वान् मांसमुपसिच्योपहरति ।
यावद्द्वादशाहेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे

9.9.44

स य एवं विद्वान् उदकमुपसिच्योपहरति ।
प्रजानां प्रजननाय गच्छति प्रतिष्ठां प्रियः प्रजानां भवति य एवं विद्वान् उपसिच्योपहरति

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc