अथर्ववेद · अध्याय 9.11
यत्क्षत्तारं ह्वयत्या श्रावयत्येव तत्॥१
यत्प्रतिशृणोति प्रत्याश्रावयत्येव तत्॥२
यत्परिवेष्टारः पात्रहस्ताः पूर्वे चापरे च प्रपद्यन्ते चमसाध्वर्यव एव ते ॥३
तेषां न कश्चनाहोता ॥४
यद्वा अतिथिपतिरतिथीन् परिविष्य गृहान् उपोदैत्यवभृथमेव तदुपावैति ॥५
यत्सभागयति दक्षिणाः सभागयति यदनुतिष्ठत उदवस्यत्येव तत्॥६
स उपहूतः पृथिव्यां भक्षयत्युपहूतस्तस्मिन् यत्पृथिव्यां विश्वरूपम् ॥७
स उपहूतोऽन्तरिक्षे भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥८
स उपहूतो दिवि भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥९
स उपहूतो देवेषु भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥१०
स उपहूतो लोकेषु भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥११
स उपहूत उपहूतः ॥१२
आप्नोतीमं लोकमाप्नोत्यमुम् ॥१३
ज्योतिष्मतो लोकान् जयति य एवं वेद ॥१४
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0