भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 7.73

7.73.1

यत्किं चासौ मनसा यच्च वाचा यज्ञैर्जुहोति हविषा यजुषा ।
तन् मृत्युना निरृतिः संविदाना पुरा सत्यादाहुतिं हन्त्वस्य

7.73.2

यातुधाना निरृतिरादु रक्षस्ते अस्य घ्नन्त्वनृतेन सत्यम् ।
इन्द्रेषिता देवा आजमस्य मथ्नन्तु मा तत्सं पादि यदसौ जुहोति

7.73.3

अजिराधिराजौ श्येनौ संपातिनाविव ।
आज्यं पृतन्यतो हतां यो नः कश्चाभ्यघायति

7.73.4

अपाञ्चौ त उभौ बाहू अपि नह्याम्यास्यम् ।
अग्नेर्देवस्य मन्युना तेन तेऽवधिषं हविः

7.73.5

अपि नह्यामि ते बाहू अपि नह्याम्यास्यम् ।
अग्नेर्घोरस्य मन्युना तेनऽवधिषं हविः

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc