भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 7.13

7.13.1

सभा च मा समितिश्चावतां प्रजापतेर्दुहितरौ संविदाने ।
येना संगछा उप मा स शिक्षाच्चारु वदानि पितरः संगतेषु

7.13.2

विद्म ते सभे नाम नरिष्टा नाम वा असि ।
ये ते के च सभासदस्ते मे सन्तु सवाचसः

7.13.3

एषामहं समासीनानां वर्चो विज्ञानमा ददे ।
अस्याः सर्वस्याः संसदो मामिन्द्र भगिनं कृणु

7.13.4

यद्वो मनः परागतं यद्बद्धमिह वेह वा ।
तद्व आ वर्तयामसि मयि वो रमतां मनः

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc