भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 7.113

7.113.1

यो न स्तायद्दिप्सति यो न आविः स्वो विद्वान् अरणो वा नो अग्ने ।
प्रतीच्येत्वरणी दत्वती तान् मैषामग्ने वास्तु भून् मो अपत्यम्

7.113.2

यो नः सुप्तान् जाग्रतो वाभिदासात्तिष्ठतो वा चरतो जातवेदः ।
वैश्वानरेण सयुजा सजोषास्तान् प्रतीचो निर्दह जातवेदः

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc