भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 6.92

6.92.1

वातरंहा भव वाजिन् युजमान इन्द्रस्य याहि प्रसवे मनोजवाः ।
युञ्जन्तु त्वा मरुतो विश्ववेदस आ ते त्वस्ता पत्सु जवं दधातु

6.92.2

जवस्ते अर्वन् निहितो गुहा यः श्येने वाते उत योऽचरत्परीत्तः ।
तेन त्वं वाजिन् बलवान् बलेनाजिं जय समने परयिष्णुः

6.92.3

तनूष्टे वाजिन् तन्वं नयन्ती वाममस्मभ्यं धावतु शर्म तुभ्यम् ।
अह्रुतो महो धरुणाय देवो दिवीव ज्योतिः स्वमा मिमीयात्

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc