ग्रंथ पाठ
अथर्ववेद · अध्याय 6.86
6.86.1
वृषेन्द्रस्य वृषा दिवो वृषा पृथिव्या अयम् ।
वृषा विश्वस्य भूतस्य त्वमेकवृषो भव
6.86.2
समुद्र ईशे स्रवतामग्निः पृथिव्या वशी ।
चन्द्रमा नक्षत्राणामीशे त्वमेकवृषो भव
6.86.3
सम्राडस्यसुराणां ककुन् मनुष्याणाम् ।
देवानामर्धभागसि त्वमेकवृषो भव
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0