भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 6.82

6.82.1

आगच्छत आगतस्य नाम गृह्णाम्यायतः ।
इन्द्रस्य वृत्रघ्नो वन्वे वासवस्य शतक्रतोः

6.82.2

येन सूर्यां सावित्रीमश्विनोहतुः पथा ।
तेन मामब्रवीद्भगो जायामा वहतादिति

6.82.3

यस्तेऽङ्कुशो वसुदानो बृहन्न् इन्द्र हिरण्ययः ।
तेना जनीयते जायां मह्यं धेहि शचीपते

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc