ग्रंथ पाठ
अथर्ववेद · अध्याय 6.71
6.71.1
यदन्नमद्मि बहुधा विरूपं हिरण्यमश्वमुत गामजामविम् ।
यदेव किं च प्रतिजग्रहाहमग्निष्टद्धोता सुहुतं कृणोतु
6.71.2
यन् मा हुतमहुतमाजगाम दत्तं पितृभिरनुमतं मनुष्यैः ।
यस्मान् मे मन उदिव रारजीत्यग्निष्टद्धोता सुहुतं कृणोतु
6.71.3
यदन्नमद्म्यनृतेन देवा दास्यन्न् अदास्यन्न् उत संगृणामि ।
वैश्वानरस्य महतो महिम्ना शिवं मह्यं मधुमदस्त्वन्नम्
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0