भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 6.69

6.69.1

गिरावरगराटेषु हिरन्ये गोषु यद्यशः ।
सुरायां सिच्यमानायां कीलाले मधु तन् मयि

6.69.2

अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती ।
यथा भर्गस्वतीं वाचमावदानि जनामनु

6.69.3

मयि वर्चो अथो यशोऽथो यज्ञस्य यत्पयः ।
तन् मयि प्रजापतिर्दिवि द्यामिव दृंहतु

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc