ग्रंथ पाठ
अथर्ववेद · अध्याय 6.67
6.67.1
परि वर्त्मानि सर्वत इन्द्रः पूषा च सस्रतुः ।
मुह्यन्त्वद्यामूः सेना अमित्राणां परस्तराम्
6.67.2
मूढा अमित्राश्चरताशीर्षाण इवाहयः ।
तेषां वो अग्निमूढानामिन्द्रो हन्तु वरंवरम्
6.67.3
ऐषु नह्य वृषाजिनं हरिणस्य भियं कृधि ।
पराङमित्र एषत्वर्वाची गौरुपेषतु
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0