ग्रंथ पाठ
अथर्ववेद · अध्याय 6.63
6.63.1
यत्ते देवी निरृतिराबबन्ध दाम ग्रीवास्वविमोक्यं यत्।
तत्ते वि ष्याम्यायुषे वर्चसे बलायादोमदमन्नमद्धि प्रसूतः
6.63.2
नमोऽस्तु ते निरृते तिग्मतेजोऽयस्मयान् वि चृता बन्धपाशान् ।
यमो मह्यं पुनरित्त्वां ददाति तस्मै यमाय नमो अस्तु मृत्यवे
6.63.3
अयस्मये द्रुपदे बेधिष इहाभिहितो मृत्युभिर्ये सहस्रम् ।
यमेन त्वं पितृभिः संविदान उत्तमं नाकमधि रोहयेमम्
6.63.4
संसमिद्युवसे वृषन्न् अग्ने विश्वान्यर्य आ ।
इडस्पदे समिध्यसे स नो वसून्या भर
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0