ग्रंथ पाठ
अथर्ववेद · अध्याय 6.51
6.51.1
वायोः पूतः पवित्रेण प्रत्यङ्सोमो अति द्रुतः ।
इन्द्रस्य युजः सखा
6.51.2
आपो अस्मान् मातरः सूदयन्तु घृतेन नो घृतप्वः पुनन्तु ।
विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरा पूत एमि
6.51.3
यत्किं चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरन्ति ।
अचित्त्या चेत्तव धर्म युयोपिम मा नस्तस्मादेनसो देव रीरिषः
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0