ग्रंथ पाठ
अथर्ववेद · अध्याय 6.33
6.33.1
यस्येदमा रजो युजस्तुजे जना नवं स्वः ।
इन्द्रस्य रन्त्यं बृहत्
6.33.2
नाधृष आ दधृषते धृषाणो धृषितः शवः ।
पुरा यथा व्यथिः श्रव इन्द्रस्य नाधृषे शवः
6.33.3
स नो ददातु तां रयिमुरुं पिशङ्गसंदृशम् ।
इन्द्रः पतिस्तुविष्टमो जनेष्वा
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0