भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 6.26

6.26.1

अव मा पाप्मन्त्सृज वशी सन् मृदयासि नः ।
आ मा भद्रस्य लोके पाप्मन् धेह्यविह्रुतम्

6.26.2

यो नः पाप्मन् न जहासि तमु त्वा जहिमो वयम् ।
पथामनु व्यावर्तनेऽन्यं पाप्मानु पद्यताम्

6.26.3

अन्यत्रास्मन् न्युच्यतु सहस्राक्षो अमर्त्यः ।
यं द्वेषाम तमृच्छतु यमु द्विष्मस्तमिज्जहि

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc