ग्रंथ पाठ
अथर्ववेद · अध्याय 6.24
6.24.1
हिमवतः प्र स्रवन्ति सिन्धौ समह सङ्गमः ।
आपो ह मह्यं तद्देवीर्ददन् हृद्द्योतभेषजम्
6.24.2
यन् मे अक्ष्योरादिद्योत पार्ष्ण्योः प्रपदोश्च यत्।
आपस्तत्सर्वं निष्करन् भिषजां सुभिषक्तमाः
6.24.3
सिन्धुपत्नीः सिन्धुराज्ञीः सर्वा या नद्य स्थन ।
दत्त नस्तस्य भेषजं तेना वो भुनजामहै
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0