ग्रंथ पाठ
अथर्ववेद · अध्याय 6.18
6.18.1
ईर्ष्याया ध्राजिं प्रथमां प्रथमस्या उतापराम् ।
अग्निं हृदय्यं शोकं तं ते निर्वापयामसि
6.18.2
यथा भूमिर्मृतमना मृतान् मृतमनस्तरा ।
यथोत मम्रुषो मन एवेर्ष्योर्मृतं मनः
6.18.3
अदो यत्ते हृदि श्रितं मनस्कं पतयिष्णुकम् ।
ततस्त ईर्ष्यां मुञ्चामि निरूष्माणं दृतेरिव
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0