भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 6.127

6.127.1

विद्रधस्य बलासस्य लोहितस्य वनस्पते ।
विसल्पकस्यौषधे मोच्छिषः पिशितं चन

6.127.2

यौ ते बलास तिष्ठतः कक्षे मुष्कावपश्रितौ ।
वेदाहं तस्य भेषजं चीपुद्रुरभिचक्षणम्

6.127.3

यो अङ्ग्यो यः कर्ण्यो यो अक्ष्योर्विसल्पकः ।
वि वृहामो विसल्पकं विद्रधं हृदयामयम् ।
परा तमज्ञातं यक्ष्ममधराञ्चं सुवामसि

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc