ग्रंथ पाठ
अथर्ववेद · अध्याय 6.123
6.123.1
एतं सधस्थाः परि वो ददामि यं शेवधिमावहाज्जातवेदः ।
अन्वागन्ता यजमानः स्वस्ति तं स्म जानीत परमे व्योमन्
6.123.2
जानीत स्मैनं परमे व्योमन् देवाः सधस्था विद लोकमत्र ।
अन्वागन्ता यजमानः स्वस्तीष्टापूर्तं स्म कृणुताविरस्मै
6.123.3
देवाः पितरः पितरो देवाः ।
यो अस्मि सो अस्मि
6.123.4
स पचामि स ददामि ।
स यजे स दत्तान् मा यूषम्
6.123.5
नाके राजन् प्रति तिष्ठ तत्रैतत्प्रति तिष्ठतु ।
विद्धि पूर्तस्य नो राजन्त्स देव सुमना भव
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0