ग्रंथ पाठ
अथर्ववेद · अध्याय 6.115
6.115.1
यद्विद्वांसो यदविद्वांस एनांसि चकृमा वयम् ।
यूयं नस्तस्मान् मुञ्चत विश्वे देवाः सजोषसः
6.115.2
यदि जाग्रद्यदि स्वपन्न् एन एनस्योऽकरम् ।
भूतं मा तस्माद्भव्यं च द्रुपदादिव मुञ्चताम्
6.115.3
द्रुपदादिव मुमुचानः स्विन्नः स्नात्वा मलादिव ।
पूतं पवित्रेणेवाज्यं विश्वे शुम्भन्तु मैनसः
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0