भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 6.11

6.11.1

त
शमीमश्वत्थ आरूढस्तत्र पुंसुवनं कृतम् ।
तद्वै पुत्रस्य वेदनं तत्स्त्रीष्वा भरामसि

6.11.2

पुंसि वै रेतो भवति तत्स्त्रियामनु षिच्यते ।
तद्वै पुत्रस्य वेदनं तत्प्रजापतिरब्रवीत्

6.11.3

प्रजापतिरनुमतिः सिनीवाल्यचीकॢपत्।
स्त्रैषूयमन्यत्र दधत्पुमांसमु दधदिह

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc