भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 6.100

6.100.1

देवा अदुः सूर्यो द्यौरदात्पृथिव्यदात्।
तिस्रः सरस्वतिरदुः सचित्ता विषदूषणम्

6.100.2

यद्वो देवा उपजीका आसिञ्चन् धन्वन्युदकम् ।
तेन देवप्रसूतेनेदं दूषयता विषम्

6.100.3

असुराणां दुहितासि सा देवानामसि स्वसा ।
दिवस्पृथिव्याः संभूता सा चकर्थारसं विषम्

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc