भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 5.5

5.5.1

रात्री माता नभः पितार्यमा ते पितामहः ।
सिलाची नाम वा असि सा देवानामसि स्वसा

5.5.2

यस्त्वा पिबति जीवति त्रायसे पुरुषं त्वम् ।
भर्त्री हि शश्वतामसि जनानां च न्यञ्चनी

5.5.3

वृक्षंवृक्षमा रोहसि वृषण्यन्तीव कन्यला ।
जयन्ती प्रत्यातिष्ठन्ती स्परणी नाम वा असि

5.5.4

यद्दण्डेन यदिष्वा यद्वारुर्हरसा कृतम् ।
तस्य त्वमसि निष्कृतिः सेमं निष्कृधि पूरुषम्

5.5.5

भद्रात्प्लक्षान् निस्तिष्ठस्यश्वत्थात्खदिराद्धवात्।
भद्रान् न्यग्रोधात्पर्णात्सा न एह्यरुन्धति

5.5.6

हिरण्यवर्णे सुभगे सूर्यवर्णे वपुष्टमे ।
रुतं गच्छासि निष्कृते निष्कृतिर्नाम वा असि

5.5.7

हिरण्यवर्णे सुभगे शुष्मे लोमशवक्षणे ।
अपामसि स्वसा लाक्षे वातो हात्मा बभूव ते

5.5.8

सिलाची नाम कानीनोऽजबभ्रु पिता तव ।
अश्वो यमस्य यः श्यावस्तस्य हास्नास्युक्षिता

5.5.9

अश्वस्यास्नः संपतिता सा वृक्षामभि सिष्यदे ।
सरा पतत्रिणी भूत्वा सा न एह्यरुन्धति

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc