भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 5.21

5.21.1

विहृदयं वैमनस्यं वदामित्रेषु दुन्दुभे ।
विद्वेषं कश्मशं भयममित्रेषु नि दध्मस्यव एनान् दुन्दुभे जहि

5.21.2

उद्वेपमाना मनसा चक्षुषा हृदयेन च ।
धावन्तु बिभ्यतोऽमित्राः प्रत्रासेनाज्ये हुते

5.21.3

वानस्पत्यः संभृत उस्रियाभिर्विश्वगोत्र्यः ।
प्रत्रासममित्रेभ्यो वदाज्येनाभिघारितः

5.21.4

यथा मृगाः संविजन्त आरण्याः पुरुषादधि ।
एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय

5.21.5

यथा वृकादजावयो धावन्ति बहु बिभ्यतीः ।
एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय

5.21.6

यथा श्येनात्पतत्रिणः संविजन्ते अहर्दिवि सिंहस्य स्तनथोर्यथा ।
एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय

5.21.7

परामित्रान् दुन्दुभिना हरिणस्याजिनेन च ।
सर्वे देवा अतित्रसन् ये संग्रामस्येषते

5.21.8

यैरिन्द्रः प्रक्रीडते पद्घोषैश्छायया सह ।
तैरमित्रास्त्रसन्तु नोऽमी ये यन्त्यनीकशः

5.21.9

ज्याघोषा दुन्दुभयोऽभि क्रोशन्तु या दिशः ।
सेनाः पराजिता यतीरमित्राणामनीकशः

5.21.10

आदित्य चक्षुरा दत्स्व मरीचयोऽनु धावत ।
पत्सङ्गिनीरा सजन्तु विगते बाहुवीर्ये

5.21.11

यूयमुग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृनीत शत्रून् ।
सोमो राजा वरुणो राजा महादेव उत मृत्युरिन्द्रः

5.21.12

एता देवसेनाः सूर्यकेतवः सचेतसः ।
अमित्रान् नो जयन्तु स्वाहा

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc