भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 4.3

4.3.1

4.3
उदितस्त्रयो अक्रमन् व्याघ्रः पुरुषो वृकः ।
हिरुग्घि यन्ति सिन्धवो हिरुग्देवो वनस्पतिर्हिरुङ्नमन्तु शत्रवः

4.3.2

परेणैतु पथा वृकः परमेणोत तस्करः ।
परेण दत्वती रज्जुः परेणाघायुरर्षतु

4.3.3

अक्ष्यौ च ते मुखं च ते व्याघ्र जम्भयामसि ।
आत्सर्वान् विंशतिं नखान्

4.3.4

व्याघ्रं दत्वतां वयं प्रथमं जम्भयामसि ।
आदु ष्टेनमथो अहिं यातुधानमथो वृकम्

4.3.5

यो अद्य स्तेन आयति स संपिष्टो अपायति ।
पथामपध्वंसेनैत्विन्द्रो वज्रेण हन्तु तम्

4.3.6

मूर्णा मृगस्य दन्ता अपिशीर्णा उ पृष्टयः ।
निम्रुक्ते गोधा भवतु नीचायच्छशयुर्मृगः

4.3.7

यत्संयमो न वि यमो वि यमो यन् न संयमः ।
इन्द्रजाः सोमजा आथर्वणमसि व्याघ्रजम्भनम्

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc