भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 4.23

4.23.1

अग्नेर्मन्वे प्रथमस्य प्रचेतसः पाञ्चजन्यस्य बहुधा यमिन्धते ।
विशोविशः प्रविशिवांसमीमहे स नो मुञ्चत्वंहसः

4.23.2

यथा हव्यं वहसि जातवेदो यथा यज्ञं कल्पयसि प्रजानन् ।
एवा देवेभ्यः सुमतिं न आ वह स नो मुञ्चत्वंहसः

4.23.3

यामन्यामन्न् उपयुक्तं वहिष्ठं कर्मङ्कर्मन्न् आभगमग्निमीडे ।
रक्षोहणं यज्ञवृधं घृताहुतं स नो मुञ्चत्वंहसः

4.23.4

सुजातं जातवेदसमग्निं वैश्वानरं विभुम् ।
हव्यवाहं हवामहे स नो मुञ्चत्वंहसः

4.23.5

येन ऋषयो बलमद्योतयन् युजा येनासुराणामयुवन्त मायाः ।
येनाग्निना पणीन् इन्द्रो जिगाय स नो मुञ्चत्वंहसः

4.23.6

येन देवा अमृतमन्वविन्दन् येनौषधीर्मधुमतीरकृण्वन् ।
येन देवाः स्वराभरन्त्स नो मुञ्चत्वंहसः

4.23.7

यस्येदं प्रदिशि यद्विरोचते यज्जातं जनितव्यं च केवलम् ।
स्तौम्यग्निं नाथितो जोहवीमि स नो मुञ्चत्वंहसः

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc