ग्रंथ पाठ
अथर्ववेद · अध्याय 3.23
3.23.1
येन वेहद्बभूविथ नाशयामसि तत्त्वत्।
इदं तदन्यत्र त्वदप दूरे नि दध्मसि
3.23.2
आ ते योनिं गर्भ एतु पुमान् बाण इवेषुधिम् ।
आ वीरोऽत्र जायतां पुत्रस्ते दशमास्यः
3.23.3
पुमांसं पुत्रं जनय तं पुमान् अनु जायताम् ।
भवासि पुत्राणां माता जातानां जनयाश्च यान्
3.23.4
यानि भद्राणि बीजान्यृषभा जनयन्ति च ।
तैस्त्वं पुत्रं विन्दस्व सा प्रसूर्धेनुका भव
3.23.5
कृणोमि ते प्राजापत्यमा योनिं गर्भ एतु ते ।
विन्दस्व त्वं पुत्रं नारि यस्तुभ्यं शमसच्छमु तस्मै त्वं भव
3.23.6
यासां द्यौः पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव ।
तास्त्वा पुत्रविद्याय दैवीः प्रावन्त्वोषधयः
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0